________________
न्यायकोशः।
२११ एवार्तस्य विषमीप्सितं यत्तद्भक्षयतीति भाष्यं संगच्छते । तस्माचोरान्पश्यतीति द्वेष्योदाहरणम् । विषयेन्द्रियसंबन्धादृश्यमाना अपि न दर्शनोद्देश्या इति । षष्ठं यथा गां दोग्धीत्यादौ गौः । सप्तमं यथा क्रूरमभिक्रुध्यतीत्यादौ करः कर्म इति । तत्रोक्तं हरिणा निर्वत्यं च विकार्य च प्राप्यं चेति त्रिधा मतम् । तच्चेप्सिततमं कर्म चतुर्धान्यत्तु कल्पितम् ॥
औदासीन्येन यत्प्राप्यं यच्च कर्तुरनीप्सितम् । संज्ञान्तरैरनाख्यातं यद्यच्चाप्यन्यपूर्वकम् ॥ इति । तत्र विकार्यमपि द्विविधम् । कचित् प्रकृत्युच्छेदः कचित्तु गुणान्तरोत्पत्तिमात्रम् इति । तत्राद्यम् काष्ठं भस्म करोति इति । द्वितीयं तु सुवणं कुण्डलं करोति इति (वै० सा० पृ० १६९ )। तच्चोक्तं हरिणा विकार्य तु कर्म द्वेधा व्यवस्थितम् । प्रकृत्युच्छेदसंभूतं किंचित्काष्ठादि भस्मवत् । किंचिद्गुणान्तरोत्पत्त्या सुवर्णादि विकारवत् ॥ इति (ग० व्यु० का० २ पृ० ६५) । अत्र प्राप्यत्वं च क्रियाकृतविशेषानुपलभ्यमानत्वम् । निर्वर्त्यविकार्ययोस्तु क्रियाजन्योत्पत्त्यादिफलस्य कर्ममात्रनिष्ठतया असाधारण्येन तद्वत्त्वान्नातिप्रसङ्ग इति बोध्यम् (वाच०)। अथवा क्रियाप्रयोज्यासाधारणधर्मप्रकारकप्रतीतिविषयतानाश्रयत्वे सति फलाश्रयत्वम् । निर्वादावतिव्याप्तिवारणाय सत्यन्तम् (वै० सा० द० सुब० पृ० १६८)। औदासीन्यत्वं च कर्तुरनुद्देश्यत्वे सति क्रियाजन्यफलवत्त्वम् । यथा ग्रामं गच्छन् तृणं स्पृशतीत्यादौ तृणादेरनुद्देश्यत्वेपि क्रियाजन्यसंयोगरूपफलवत्त्वेनोदासीनकर्मता (वाच०)। द्वेष्यत्वं च द्विष्टसाधनत्वे सति क्रियाजन्यफलवत्त्वम् । संज्ञान्तरैरनाख्यातं तु अपादानत्वादितत्तद्रूपविशेषैरविवक्षितम् (वै० सा० द० सुब० पृ० १६९ ) । अथवा कारकविशेषसंज्ञान्तरेणाविवक्षितत्वे सति कर्मोपकारकम् । यथा गां पयो दोग्धीत्यादौ गवादेः कारकान्तरसंज्ञाया अपादानत्वादेः अविवक्षया पयोरूपकर्मोपयोगितया कर्मत्वम् (वाच०) अत्रेदं बोध्यम् पूर्वविधिप्रसक्तिपूर्वकं तदविवक्षायां सर्वथा पूर्वविधेरप्रसक्तौ च अकथितं च ( पा० सू० १।४।५१ ) इत्यस्य प्रवृत्तिः इति (वै० सा० पृ० १६९ )। अन्यपूर्वकं च अन्यसंज्ञाबाधनपूर्व
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org