________________
न्यायकोशः ।
नाशिका या ओदनोत्पादिका ओदनविषयिका च कृतिः तदाश्रयः इति शाब्दबोधः । एवमन्यत्राप्यूह्यम् । काशान्कटं करोति पुष्पाणि माल्यं करोतीत्यादौ धर्मिणः काशकुसुमादेः सत्त्वेपि कटसंदर्भविरहरूपपूर्वभावासत्त्वेन तद्विशिष्टस्यासत्त्वं कटसंदर्भादिनिष्पादकं क्रियातो निर्वहति इति ज्ञेयम् । अत्रेत्थमन्वयः । काशान् कटं करोति कुसुमानि मौक्तिकानि वा त्रजं करोतीत्यादौ काशादिपदोत्तरद्वितीया कृतौ विषयताविशेषमेव बोधयति । काशाद्युच्छेदकतायास्तत्र बाधात् । कटमित्यादौ द्वितीयार्थः पूर्ववत् । स्रजमित्यादिद्वितीयान्तस्य विशिष्टसत्त्वनिर्वाहकत्वमर्थः । विन्यासात्मक विशेषोत्पादकस्यापि स्वरूप संबन्धविशेषरूपविशिष्टसत्त्वनिर्वाहकत्वमक्षतमेव । ओदनं पचतीत्यत्र तण्डुलादिरूपपूर्वद्रव्यं विनाश्यौदनादेर्निर्वर्तनं क्रियया । पुष्पाणि माल्यमित्यत्र पुष्पादिरूप पूर्वद्रव्यमविनाश्य तत्रैव संदर्भादिरूपविशेष निष्पादनेन तद्विशिष्टस्य माल्यादेर्निर्वर्तनं क्रियया । काशान् कटं करोतीत्यादौ काशादिरूपपूर्वधर्मिणमविनाश्य तत्रैव कटादिरूपधर्मिनिष्पादनं क्रियया (ग० व्यु० का ० २ पृ० ६५) । अत्र काशादिनिष्ठविलक्षणविषयतानिरूपितविषयितावती या कटादिविषयिका तदुत्पादिका च कृतिः तदाश्रयः इति बोधः । एवमन्यत्रापि बोध ऊह्यः । प्रकारान्तरेण व्याकरणशास्त्रोक्तरीत्या कर्म सप्तविधं भवति । तथाहि निर्वर्त्यम् विकार्यम् प्राप्यम् उदासीनम् द्वेष्यम् संज्ञान्तरैरनाख्यातम् अन्यपूर्वकं चेति । तत्राद्यत्रयम् ईप्सिततमं कर्म कर्तुः क्रिययेप्सिततमव्यापारं भवति ( ल० म० सुब० पृ० ८४ ) । तदन्यदवशिष्टचतुष्टयम् इति विवेकः । तेषां सप्तानां मध्ये आद्यं यथा घटं करोतीत्यादौ घटः कर्म । द्वितीयम् सोमं सुनोतीत्यादौ सोमः । कष्टं भस्म करोतीत्यादौ काष्ठादि विकार्यं भस्मादि च निर्वर्त्य कर्म । तृतीयम् ग्रामं गच्छति घटं जानातीत्यादौ ग्रामघटादि । चतुर्थ यथा ग्रामं गच्छन् घटं पश्यतीत्यादौ घटः । पञ्चमं यथा विषं भुङ्क इत्यादौ विषम् | अत्रेदं बोध्यम् । ताडनादिना पराधीनतया विषभोजनादिकं भवति । तत्र विषादि तादृशफलाश्रयत्वेनोद्देश्यमेव । अत
२१०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org