________________
२०४
न्यायकोशः ।
व्या० पृ० २ ) । तन्मते अचेतन काष्ठादीनामपि मुख्यं कर्तृत्वमिष्टमेव इति विज्ञेयम् । इदमत्रावधेयम् । कारककर्मादिपदवत्कर्तृपदेपि कृधातुः क्रियार्थक एव अचेतनसाधारण्याय ग्राह्यः । आश्रयत्वमिह तत्तदाख्यातार्थद्वारा 1 तथा च यगाद्यसमभिव्याहृताख्यातेन यद्धात्वर्थान्वितयद्धर्मवत्त्वं बोध्यते तद्धात्वर्थनिरूपितधर्मवत्त्वं तद्धात्वर्थकर्तृत्वम् । यथा पचतीत्यादौ पाकाद्यनुकूलव्यापारवत्त्वम् जानातीत्यादी ज्ञानाद्याश्रयत्वम् नश्यतीत्यादौ नाशप्रतियोगित्वम् इति । चैत्रेण पच्यत इत्यादौ पाकजन्यफलाश्रयत्ववारणाय यगाद्यसमभिव्याहृतेति । अत्र चैत्रादेः कर्तृत्वं पचतीत्याख्यातबोध्यं धर्ममादायैवेति ज्ञेयम् ( का० व्या० पृ० २ ) । [घ] उपादानगोचरापरोक्षज्ञान चिकीर्षाकृतिमत्त्वम् । यथा ईश्वरस्य व्यणुकादिकर्तृत्वम् ( त० दी० १ आत्म० पृ० ११ ) । यथा वा कुलालस्य घटकर्तृत्वम् । इदं च प्राचीन नैयायिक मतानुसारि मुख्यं कर्तृत्वम् । [ ङ ] इतरकारकाप्रयोज्यत्वे सति सकलकारकप्रयोक्तृत्वम् ( सर्व० सं० पृ० २५४ अक्ष० ) । यथा चैत्रो ग्रामं यच्छतीत्यादौ चैत्रस्य कर्तृत्वम् । क्वचित् व्यापाराश्रयत्वम् । यथा रथो गच्छतीत्यादौ रथादेः कर्तृत्वम् । कचित् प्रतियोगित्वम् । यथा घटो नश्यतीत्यादौ घटस्य कर्तृत्वम् । क्वचित् कृवच्छेदकत्वम् । यथा शरीरस्य कर्तृत्वम् (गौ० वृ० ३|१|६ ) | कचिदित्येवमुक्तानीमानि त्रीणि सर्वेषां मते गौणानि कर्तृत्वानि इति विज्ञेयम् । शाब्दिकास्तु कर्तृप्रत्यय ( शपश्यनादिप्रत्यय - ) समभिव्याहृतधातूपात्तप्रधानीभूतव्यापाराश्रयत्वम् । अथवा कर्तृसंज्ञाबोधितकर्तृत्वशक्तिमत्त्वम् । यथा चैत्रस्तण्डुलं पचतीत्यादौ चैत्रस्य कर्तृत्वम् ( ल० म० सुबर्थ० पृ० ९५ ) इति वदन्ति । सा शक्तिव कर्तृप्रत्ययसमभिव्याहारे व्यापारतावच्छेदक संबन्धेन तद्धात्वर्थनिष्ठ विशेष्यता निरूपितप्रकारतानाश्रयतद्धात्वर्थाश्रयश्चम् ( ल० म० सुब० पृ० ९५ ) | अत्रेदं बोध्यम् । करणाधिकरणकर्मणामेव विवक्षया कर्तृत्वमिति नापादानसंप्रदानयोः कर्तृत्वमिति महाभाष्यकाराः । उत्पत्तिमात्रे कर्तृत्वं सर्वत्रैवास्ति कारके । व्यापारभेदापेक्षायां करणत्वादिसंभवः । इत्यनया कारिकया विवक्षा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org