________________
ध्यायकाराः।
२०५ वंशात्सर्वेषां कर्तृत्वं हरिणोक्तम् इति (वाच०) (ल० म० सुब० पृ० ८४ ) । अनुकूलकृतिमदन्तःकरणप्रकृतित्वं कर्तृत्वमिति सांख्या आहुः । न्यायनये कर्तृत्वं द्विविधम् मुख्यं गौणं चेति । तत्राचं कृतिमत्त्वम् । द्वितीयम् आश्रयत्वप्रतियोगित्वादि । कर्म-१ ( पदार्थः) [क] एकद्रव्यमगुणं संयोगविभागेष्वनपेक्षकारणमिति कर्मलक्षणम् (वै० १।१।१७ ) । अत्र एकद्रव्यत्वं च एकमात्रमूर्तसमवायिकारणकत्वम् (वै० उ० २।१।२१ )। मूर्तमात्रसमवेतत्वं वा ( वै० वि० २।१।२१) । संयोगेत्यादेः संयोगविभागयोर्निरपेक्षकारणमित्यर्थः । संयोगविभागयोः प्रत्येकमेव कारणत्वम् न मिलितयोः (त० व० पृ० २४०)। कर्म च संयोगविभागयोः खानन्तरोत्पन्नभावनैरपेक्ष्येण कारणम् ( वै० वि० १।१।१७ ) ( मु० गु० पृ० १९८ )। अत्र निरपेक्षत्वं च स्वोत्पत्त्यनन्तरोत्पत्तिकानपेक्षत्वम् । पूर्वसंयोगध्वंसस्तु स्वोत्पत्त्यनन्तरानुत्पत्तिक एव । अभावस्वेन तस्याद्यक्षणसंबन्धाभावात् (वै० उ० १।१।१७ )। तच्च कर्म मूर्तद्रव्यमात्रसमवेतम् अनित्यमेव । उत्तरसंयोगात् कदाचिदाश्रयनाशाच नश्यति इति ज्ञेयम् (त० कौ० पृ. २० ) । तथाहि प्रथमं द्रव्ये कर्मोत्पद्यते । ततो विभागः । ततः पूर्वसंयोगनाशः । तत उत्तरदेशसंयोगः द्रव्यनाशश्च । ततः कर्मनाशः इति । कर्म पञ्चविधम् । ऊवं चाधश्वाभिमुखं तिर्यग्विष्वगिति. क्रमात् । तानि पश्चापि कर्माणि दश संयोगभेदतः ॥ इति ( ता० र० श्लो० ५२ )। [ख] चलनात्मकम् ( त० सं०.)। संयोगविभागानुकूलमित्यर्थः ( वाक्य० पृ० २२ )। [ग] संयोगभिन्नत्वें संति संयोगासमवायिकारणम् (त० दी० १ पृ० ६)। [घ ] कर्मवजातिमत् ( त० दी० १ पृ० ६ ) ( त० कौ० १ पृ० १ )। तल्लक्षणं तु विभागासमवायिकारणत्वे सति संयोगहेतुत्वम् ( दि० गु० पृ० १९८ )। नित्यावृत्तिसत्तासाक्षाद्वयाप्यजातिरूपं कर्मत्वम् ( वै० उ० १।१।१७ )। नित्यावृत्तिपदार्थविभाजकोपाधिमत्त्वम् (ल० व०)। अनेकाश्रितावृत्तिसत्तासाक्षाद्वयाप्यजाति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org