________________
न्यायकोशः। कनिष्ठत्वम्-अल्पतरस्पन्दान्तरितजन्मत्वम् (दि० गु०) इति वैशेषिकाः।
कालकृतं संनिकृष्टत्वमित्यर्थः । कालकृतमपरत्वम् ( सि० च० ) इति
नैयायिकाः । यथा दशरथपुत्रस्य लक्ष्मणस्य राममपेक्ष्य कनिष्ठत्वम् । कनिष्ठा-परिणीतत्वे सति भर्तृन्यूनस्नेहा कनिष्ठेति रसिका आहुः
(रसम०) (वाच०)। कपालवेधः-अर्धरात्रेपि केषांचिदशम्या वेध इष्यते । अरुणोदयवेलायां
नावकाशो विचारणे ॥ कपालवेध इत्याहुराचार्या ये हरिप्रियाः
(पु० चि० पृ० १४९)। कपिला–नभस्ये कृष्णपक्षे या रोहिणीपातभूसुतैः । युक्ता षष्ठी पुराण ः
कपिला परिकीर्तिता ॥ ( पु० चि० पृ० १०२ )। करणम्—(कारकम् ) [क] स्वनिष्ठव्यापाराव्यवधानेन फलनिष्पादकम् ।
इदमेव साधकतमम् (ल० मञ्जु० पृ० ३२ ) । साधकतमं करणम् (पाणि० १।४।४२)। अस्यार्थः । क्रियासिद्धौ प्रकृष्टोपकारकं करणसंज्ञं स्यात् । यद्व्यापाराव्यवधानेन क्रियानिष्पत्तिस्तत्प्रकृष्टं बोध्यम् । यथा रामेण बाणेन हतो वाली । अत्र हि बाणनिष्ठव्यापाराव्यवधानेन प्राणवियोगरूपक्रियानिष्पत्तेस्तस्य करणसंज्ञा । तदुक्तं हरिणा क्रियायाः परिनिष्पत्तिर्यव्यापारादनन्तरम्। विवक्ष्यते यदा यत्र करणं तत्तदा स्मृतम्॥ इति । क्रियाया इत्यस्य फलात्मिकाया इत्यर्थः । विवक्ष्यत इत्यनेन स्थाल्यादीनामपि वैवक्षिकं करणत्वं सूचयति । तदप्युक्तम् वस्तुतस्तदनिर्देश्यं न हि वस्तु व्यवस्थितम् । स्थाल्या पच्यत इत्येषा विवक्षा दृश्यते यतः॥ इति । [ख] सविकरणस्य यद्धातोरुपस्थाप्ययाहशार्थे तृतीयया यादृशः स्वार्थोनुभाव्यते स तद्धातूपस्थाप्यतादृशक्रियायाः करणसंज्ञकं कारकमुच्यते । यथा दात्रेण छिनत्ति घटत्वेन जानातीत्यादौ ( श० प्र० पृ० ८८)। [ग] यस्मिन्सति क्रिया भवत्येव तत् (चि० ४ )। हेतुकरणयोरयं विशेषः सव्यापार निर्व्यापारं वा द्रव्योत्पादकं यत्स हेतुरेव । तादृशमेव गुणोत्पादकं यत्सोपि हेतुरेव ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org