________________
न्यायकोशः ।
यथा वा
निर्व्यापारं क्रियोत्पादकं यत्सोपि हेतुरेव । सव्यापारं क्रियोत्पादकं तु करणमेवेति । [घ] प्राचीननैयायिकमते व्यापारवदसाधारणं कारणम् ( न्या० म० १ पृ० २ ) ( न्या० बो० १ पृ० ८ ) ( मु० १ पृ० ११८ ) ( त० सं० ) । यथा अनुमिति प्रति व्याप्तिज्ञानं करणम् ( सि० च०२ पृ० २५ ) ( त० दी० २ पृ० २३ ) । इन्द्रियं करणं मतम् ( भा० प० श्लो० ५९ ) इत्यादौ प्रत्यक्षं प्रतीन्द्रियं करणम् । यथा वा छिदिक्रियां प्रति कुठारः ( त० कौ० १ पृ० ७ ) । अत्र लक्षणे घटं प्रति कपालसंयोगवारणाय व्यापारवदिति । ईश्वरज्ञानवारणायासाधारणेति ( न्या० म० १ पृ० २ ) । अत्रासाधारणत्वं च कार्यत्वावच्छिन्न कार्यतानिरूपित कारणताशालित्वम् ( वाक्य ० १ पृ० १० ) । अथवा कार्यत्वातिरिक्तधर्मावच्छिन्नकार्यतानिरूपित कारणताशालित्वम् (न्या० बो० १ पृ० ८ ) । अत्र प्राचीनाः व्यापारवत्त्वे सति इति वक्तव्यम् । अतश्चक्षुः संयोगादौ नातिव्याप्तिः 1 श्रोत्रमनः संयोगः शब्दो वा व्यापारः संभवत्येवेति न श्रोत्रेन्द्रिये करणलक्षणाव्याप्तिः इति वदन्ति । नव्यास्तु असाधारणमेव कारणं करणम् । यद्विलम्बात्प्रकृतकार्यानुत्पाद स्तत्कारणत्वस्यासाधारणत्वात्मकतया कालादिषु तादृशकारणत्वाभावान्नातिव्याप्तिः । व्यापारत्वेनाभिमतेन्द्रियसंयोगादिकमेव प्रत्यक्षे करणम् इत्याहु: ( नील० १ पृ० १६ ) । वाक्यवृत्तौ (१पृ० १० ) तु व्यापारवदिति लक्षणस्य जनकतासंबन्धेन स्वजनकवत्त्वे सति स्वासाधारणकारणमित्यर्थ उक्तः । कुठारस्य छिदिक्रियाकरणत्वे कुठारदारुसंयोगो व्यापारो बोध्यः ( त० कौ० पृ० ७ ) । [ ङ ] नवीननैयायिकमते फलायोगव्यवच्छिन्नं कारणम् ( प० च० ) ( नील० २ पृ० २३ ) ( सि० च० २ पृ० २३ ) (वै० सा० द० ) । यथा अनुमितिं प्रति परामर्शः करणम् ( त० सं० ) ( नील० ) ( भवा० )। यथा वा प्रत्यक्ष इन्द्रियार्थसंनिकर्षः करणम् ( नील० १ पृ० १६ ) । फलायोगव्यवच्छिन्नमित्यस्यार्थश्च फलव्याप्तम् ( प० च० ) इति । तस्य करणतायां सामानाधिकरण्यं प्रत्यासत्तिः ( भवा० ) । यद्विलम्बात्प्रकृत
1
२००
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org