________________
न्यायकोशः। तदनभ्युपगच्छद्भ्यां वादिप्रतिवादिभ्यां तदभ्युपगमसाहित्यनियतस्य तस्य प्रवर्तयितुमशक्यत्वात् उत कथकाभ्यां प्रवर्तनीयवाग्व्यवहारं प्रति हेतुभावात् उत लोकसिद्धत्वात् अथवा तदनभ्युपगमस्य तत्त्वनिर्णयविजयातिप्रसञ्जकत्वात् । न तावदाद्यः । तदनभ्युपगच्छतोपि चार्वाकमाध्यमिकादेर्वाग्व्यवहाराणां सविस्तराणां प्रतीयमानत्वात् । तस्यैव वा अनिष्पत्ती भवतस्तन्निरासप्रयासानुपपत्तेः इत्यादि ( वाच०)। [ख] तत्त्वनिर्णय
विजयएतदन्यतरस्वरूपयोग्यो न्यायानुगतवचनसंदर्भः (गौ० वृ० .. - १।२।१ प्रस्तावना )। [ग] वादिप्रतिवादिनोः पक्षप्रतिपक्षपरिग्रहः __(सर्व० पृ० २३९ अक्ष०)। [घ] विचारसमयः (ग० अव०)। - तिस्रः कथा भवन्ति वादः जल्पः वितण्डा चेति (वात्स्या० १।२।४२) - ( गौ० वृ० १।२।४२ ) । २ प्रबन्धकल्पनां स्तोकसत्यां प्राज्ञाः कथां
विदुः इति काव्यज्ञा आहुः ( वाच० )। कथाभासः-(जातिः) यत्र वादिप्रतिवादिभ्यां परस्परमसहूषणमुद्भाव्यते
सः। यथा प्रतिषेधेपि समानो दोषः ( गौ० ५।११३९)। शब्दः अनित्यः प्रयत्नानन्तरीयकत्वादित्यत्र प्रयत्नानन्तरीयकत्वं न शब्दानित्यत्वं साधयति अनैकान्तिकत्वादिति यो दोषः स त्वत्पक्षेपि तुल्यः प्रयत्नाभिव्यङ्गथत्वस्याप्यसाधकत्वादिति (गौ० वृ० ५।१।३९)। अत्र षट् पक्षाः प्रवर्तन्ते । तथाहि शब्दः अनित्यः प्रयत्नानन्तरीयकत्वादिति स्थापनावादिनः प्रथमः पक्षः । प्रयत्नकार्यानेकत्वात्कार्यसम इति प्रतिवादिनो द्वितीयः पक्षः । प्रतिषेधाप्रतिषेधेप्यनैकान्तिकत्वं तुल्यमिति वादिनस्तृतीयः पक्षः । विप्रतिषेधस्तत्रापि तथैवानकान्तिकत्वं तत्समान
दोषोद्भावनं वा चतुर्थः पक्षः (गौ० वृ० ५।१।४१)। प्रतिषेधं - सदोषमभ्युपेत्य प्रतिषेधविप्रतिषेधे समानप्रसङ्गो मतानुज्ञा (गौ०
५।१।४२ ) इति पञ्चमः पक्षः । स्वपक्षलक्षणापेक्षोपपत्त्युपसंहारे हेतु
निर्देशे परपक्षदोषाभ्युपगमात्समानो दोषः (गौ० ५।११४३ ) इति : षष्ठः पक्षः (गौ० वृ० ५।१।४१-४३ )। अत्र त्रयः पक्षा अपि .: संभवेयुः (गौ० वृ० ५।१।४०)। कथा तस्याः षडङ्गानि प्राहुश्चत्वारि . केचन (ता. २०)।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org