________________
न्यायकोशः।
१९३ इत्यादौ प्रहधातोर्ज्ञानमर्थः । द्वितीयाया विषयत्वमर्थः । आख्यातस्य जनकत्वमर्थः । तथा च रूपविषयकज्ञानजनकं चक्षुः इत्यन्वयबोधः । ज्ञानं रजतं गृह्णात्येव इत्यादिप्रयोगो भवत्येव । यदि च न भवति तदा ज्ञानेनार्थो गृह्यत एव इत्यादौ ज्ञानत्वावच्छेदेनार्थप्राहकत्वायोगव्यवच्छेदोर्थो वाच्यः इति ज्ञानेन रजतं गृह्यत एव इत्यादौ ज्ञानत्वावच्छेदेन रजतत्वप्रकारकत्वायोगव्यवच्छेदबोधस्यासंभवेन तथाविधप्रयोगो न भवति इति बोध्यम् । रूपं पृथिव्यां वर्तत एव इत्यादौ सप्तम्या निरूपितत्वमर्थः। धातोर्वृत्तिरर्थः । आख्यातस्याश्रयत्वमर्थः । तथा च पृथिवीनिरूपितवृत्त्याश्रयत्वायोगव्यवच्छेदवद्रूपम् इत्यन्वयबोधः । अत्र च रूपत्वसामानाधिकरण्यमात्रेणान्वयः इति विज्ञेयम् । रूपेण पृथिवी व्यावय॑त एव इत्यादौ रूपे पृथिवीनिरूपितधात्वर्थव्यावृत्त्ययोगव्यवच्छेदः प्रतीयते । आत्मनैव ज्ञायते इष्यते क्रियते इत्यादौ आत्मवृत्तित्वायोगव्यवच्छेदः प्रतीयते । अत्र आत्मपदोत्तरतृतीयाया वृत्तित्वमर्थः । ऋतौ स्वदारान् गच्छेदेव इत्यादौ सप्तम्या अवच्छेद्यत्वमर्थः । एवार्थश्चायोगव्यवच्छेदः । विध्यर्थश्चेष्टसाधनत्वम् । इष्टं च प्रत्यवायाभावरूपम् । द्वितीयार्थः कर्मत्वम् । तथा च ऋतुकालावच्छिन्नस्वदारकर्मकाभिगमनायोगव्यवच्छेदः . प्रत्यवायाभावसाधनम् इत्यन्वयबोधः । अत्र यस्यायोगव्यवच्छेदः प्रत्यवायाभावहेतुत्वेन विधिबोधितः स प्रत्यवायजनकाभावप्रतियोगी इति व्याप्तिस्वीकारेण तादृशाभिगमनाभावस्य प्रत्यवायहेतुत्वसिद्धिः । ननु च ऋतुकालावच्छिन्नस्वदारकर्मकाभिगमनाभावस्य सामानाधिकरण्येन प्रत्यवायहेतुत्वं वाच्यम् । तथा च यस्यां कस्यामपि निशि ऋतावभिगन्तुः पुरुषस्य ऋत्वन्तराभिगमनाभावेपि प्रत्यवायो न स्यात् । एवं नानादारवतः प्रभोः दारान्तराभिगमनाभावेपि प्रत्यवायो न स्यात् इति चेत् अत्र वदन्ति । तत्तहतुकालावच्छिन्नतत्तद्दारकर्मकत्वतत्तत्पुरुषकर्तृकत्वएतदुभयाभाववदभिगमनसामान्यस्य तत्तत्पुरुषीयतादृशप्रत्यवायं प्रति हेतुता इति विशिष्य पुरुषभेदेनैव कार्यकारणभावः कल्प्यते इति । इह भवने मैत्रेणैव पक्ष्यते तेमनम् इत्यादी भवनपदोत्तरसप्तम्या उत्पत्तिरर्थः । तथा च एतद्भवनो२५ न्या० को.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org