________________
१९२
न्यायकोशः।
धिकरण्येन सरोजे नीलभवनकर्तृत्वात्यन्तायोगव्यवच्छेदो बोध्यते ( म० प्र० पृ० ७) । ( यद्वा सरोजे नीलत्वात्यन्तायोगो व्यवच्छिद्यते ( वाच० )। केचित्तु यावत्सरोजनिष्ठात्यन्ताभावप्रतियोगित्वव्यवच्छेदो नीलभवनकर्तृत्वादौ प्रतीयत इत्याहुः ( प० मा० ) । नव्याः शिरोमणिभट्टाचार्यप्रभृतयस्तु सर्वत्रान्ययोगव्यवच्छेदेनैवोपपत्तावयोगव्यवच्छेदात्यन्तायोगवव्यवच्छेदौ न स्वीकार्यावित्यवीवदन् (म० प्र० १ पृ० ७-८ )। परमप्राचीनमते तु एवकारार्थो द्विविधः । अयोगव्यवच्छेदः अन्ययोगव्यवच्छेदश्चेति । तत्रायोगव्यवच्छेदो द्विविधः केवलायोगव्यवच्छेदः अत्यन्तायोगव्यवच्छेदश्च । यत्रान्वयितावच्छेदकसामानाधिकरण्यमात्रेणायोगव्यवच्छेदः प्रतीयते यथा नीलं सरोजं भवत्येव इत्यादौ तत्रात्यन्तायोगव्यवच्छेदपरिभाषा। यत्र चान्वयितावच्छेदकावच्छेदेनायोगव्यवच्छेदः प्रतीयते यथा शङ्खः पाण्डुर एव इत्यादौ तत्र केवलायोगव्यवच्छेदपरिभाषा । अन्ययोगव्यवच्छेदस्तु पार्थ एव धनुर्धरः इत्यादावेवकारार्थः । एवम् अन्यान्यपि ,अन्ययोगव्यवच्छेदस्योदाहरणान्यूह्यानि । तत्र जातिमत्येव सत्ता इत्यादौ सत्तापदेन लक्षणया तदधिकरणत्वमर्थः । तथा च सत्ताधिकरणत्वे जातिमदन्यवृत्तित्वव्यवच्छेदः प्रतीयते । अथवा जातिमत्येव सत्ता इत्यादी सप्तम्या निरूपितत्वमर्थः । तथा च सत्ता जातिमन्निरूपितसमवायप्रतियोगिनी सत्तासमवाये जातिमदन्यानुयोगिकत्वव्यवच्छेदश्च इत्युभयान्वयविषयकसमूहालम्बनबोधः । एवकारस्य अयोगव्यवच्छेदार्थकत्वे त्वन्यान्युदाहरणानि । ज्ञानमर्थ • गृह्णात्येव इत्यादौ ग्रहधातोर्विषयित्वमर्थः । आख्यातस्याश्रयत्वमर्थः । निरूपितत्वं द्वितीयार्थः । तथा च ज्ञानम् अर्थनिरूपितविषयित्वाश्रयत्ववत् अर्थनिरूपितविषयित्वाश्रयत्वायोगव्यवच्छेदवञ्च इत्यन्वयबोधः । अत्र अयोगव्यवच्छेदोन्वयितावच्छेदकज्ञनातावच्छेदेन प्रतीयते न तु सामानाधिकरण्यमात्रेण इति विज्ञेयम् । द्विजो वेदानधीत एव इत्यादौ द्विजवावच्छेदेन वेदकर्मकाध्ययनकर्तृत्वायोगव्यवच्छेदो बोध्यते । अत एव नरो वेदानधीत एव इत्यादिप्रयोगवारणम् । चक्षु रूपं गृह्णात्येव
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org