________________
१९४
न्यायकोशः। त्पत्तिकतेमनत्वावच्छेदेन मैत्रपक्ष्यमाणत्वायोगव्यवच्छेदः प्रतीयते । चैत्रो जलमेव भुते इत्यादौ चैत्रो जलान्यभोजनकर्तृत्वव्यवच्छेदवान जलकर्मकभोजनकर्तृत्ववांश्च इति बोधः । अत्र नव्यास्त्वेवमाहुः। एवकारस्य अन्ययोगव्यवच्छेद एक एवार्थः । पृथिव्यामेव गन्धः इत्यादौ सप्तम्या वृत्तित्वमर्थः । अन्ययोगश्चान्यसमवेतत्वादिः । तेन पृथिवीसमवेतत्वम् पृथिव्यन्यसमवेतत्वव्यवच्छेदश्वार्थो बोध्यते । वह्निमत्येव धूमः इत्यादौ धूमे वह्निमत्संयुक्तत्वम् वह्निमदन्यसंयुक्तत्वव्यवच्छेदश्च प्रतीयते । घटत्वाभाववत्येव द्रव्यत्वाभावः इत्यादौ द्रव्यत्वाभावे घटत्वाभाववंद्भिन्नवृत्ति :व्यवच्छेदः घटत्वाभाववद्वृत्तित्वं च प्रतीयते । पक्षधरमिश्रारत्वेवमाहुः । व्यवच्छेदमानं एवकारार्थः । पृथिव्यन्यसमवेतत्वादौ सप्तम्यादीनामेव लक्षणा इति । वस्तुतस्तु अन्ययोगव्यवच्छेद एवकारार्थः । व्यवच्छेदश्चात्यन्ताभावः अन्योन्याभावश्च । पृथिव्यामेव गन्धः इत्यादौ पृथिव्यां गन्धः पृथिव्यन्यस्मिन्गन्धाभावश्च इति बोधः । शङ्खः पाण्डुर एव इत्यादौ शङ्खतादात्म्यवान् पाण्डुरः पाण्डुरान्यस्मिञ् शङ्खान्योन्याभावश्च इति बोधः । पार्थ एव धनुर्धरः इत्यादौ पार्थतादात्म्यवान् धनुर्धरः पार्थान्यस्मिन्धनुर्धरत्वव्यवच्छेदश्च प्रतीयते इति । स्वतत्रास्त्वेवमाहुः । एवकारो न कुत्रापि शक्तः । किंतु तात्पर्यग्राहकः । पृथिव्यामेव इत्यादौ च कुत्रचित्पदे लक्षणया पृथिव्यन्यसमवेतत्वव्यवच्छेदः प्रतीयते इति । २ सादृश्यम् । ३ अनियोगः । ४ आचारनियोगः । ५ विनिग्रहः ।
६ परिभवः । ७ ईषदर्थः इत्यादि काव्यज्ञा आहुः । एषणासमितिः-द्विचत्वारिंशता भिक्षादोषैर्नित्यमदूषितम् । मुनिर्यदन्न. मादत्ते सैषणासमितिर्मता ॥ ( सर्व० सं० पृ० ७९ आई० )।
ऐकाधिकरण्यम्-सामानाधिकरण्यम् । यथा साध्येन हेतोरैकाधिकरण्यं
व्याप्तिरुच्यते (भा० प० २ श्लो० ७० ) इत्यादौ साध्यहेत्वोः सामानाधिकरण्यम् । .१ तेमनं व्यञ्जने क्लेदे इति विश्वलोचनकोशः (नान्तवर्गे ७१ )।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org