________________
न्यायकोशः। वाक्यैकवाक्यं चेति । तत्राद्यं यथा सोरोदीदित्याद्यर्थवादसमुदायस्य पदस्थानीयतया विधिपदेनैकवाक्यता। द्वितीयं यथा यत्र प्रत्येकं भिन्नभिन्नसंसर्गप्रतिपादकयोर्वाक्ययोराकाडावशेन महावाक्यार्थबोधकत्वम् तत् । यथा दर्शपौर्णमासाभ्यां स्वर्गकामो यजेत इत्यादिवाक्यानां समिधो यजति इत्यादिवाक्यानां च परस्पराङ्गाङ्गिभावबोधकतयैकवाक्यता ( वाच० )। [ङ] अथैकत्वादेकं वाक्यं साकाङ्क्ष चेद्विभागे स्यात् । अस्यार्थः । विभागे वाक्यघटकपदानां विभागे साकाङ्कमेकपदरहितस्यापरपदस्य शाब्दबोधाजनकत्वं तयोरेवार्थैकत्वम् एकफलप्रतिपादकम् । विभागे साकाङ्कत्वे सत्येकफलप्रतिपादकं यत्तदेकं वाक्यमित्यर्थः (जै० सू० वृ०२।१।४४)। २ अविसंवादिवाक्यत्वमेकवाक्यत्वम् । यथा श्रवणकटु नृपाणामेक
वाक्यं विवत्रुः ( रघु० ६।८५ ) इत्यादौ इति काव्यज्ञा वदन्ति । एकविशेषबाधः-इतरबाधाहवदस्यार्थीनुसंधेयः। एकशेषः-(वृत्तिः) व्याकरणशास्त्रसिद्धो वृत्तिविशेषः । एकशेषो द्विविधः
सरूपैकशेषः विरूपैकशेषश्च । तत्र सरूपैकशेषो घटौ घटाः इत्यादौ । विरूपैकशेषस्तु वक्रदण्डौ पितरौ श्वशुरौ भ्रातरौ पुत्रौ शिवौ इत्यादौ । अत्रायं वैयाकरणानां नियमः यः शिष्यते स लुप्यमानार्थाभिधायी इति विज्ञेयः । अत्र सरूपाणामेकशेष एकविभक्तौ ( पाणि० १।२।६४ ) इत्यनेन सूत्रेण घटश्च घटश्च घटो इत्येकशेषो बोध्यः । वक्रदण्डावित्यत्र विरूपाणामपि समानार्थानामित्येकशेषः । अत्र लक्षणया वक्रदण्डश्च कुटिलदण्डश्च इति बोधः । विग्रहोप्येवमेव। पितरौ इत्यत्र जनकशरीरत्वेन मातापित्रोरवगमाच्छक्त्या पितुर्बोधः । लक्षणया च जनकत्रीत्वेन रूपेण मातुर्बोधः । विभक्त्युपनीतं पुंस्त्वं तु पितर्येवान्वेति इति प्राश्च आहुः । नव्यास्तु एकयैव लक्षणया पितृत्वमातृत्वाभ्यां बोधकं पितृपदम् इत्याहुः ( त० प्र० ख० ४ पृ० ५३ )। अत्र माता च पिता च पितरौ इति विग्रहः । पिता मात्रा ( पाणि० १।२१७० ) इत्यनेन सूत्रणैकशेषो बोध्यः । श्वशुरौ इत्यत्र श्वशुरः श्वश्र्वा ( पाणि०१।२ ७१) इत्यनेन सूत्रेणैकशेषो बोध्यः । श्वश्रूश्च श्वशुरश्च इति विग्रहः । अत्र च
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org