________________
१८८
न्यायकोशः। धिकरणभोजनाभावे सति अष्टममुहूर्वोत्तरार्धादिसार्धमुहूर्तात्मकावयवा
धिकरणं भोजनमेकभक्तमिति निष्कर्षः। एकमात्रवृत्तिगुणत्वम्-एकत्वावच्छिन्नवृत्तिकगुणत्वम् (ल० व० पृ०
३६ ) । इदं चैकैकवृत्तिगुणत्वमित्यप्युच्यते। एकमात्रवृत्तित्वम्-स्वाश्रयनिष्ठभेदाप्रतियोग्याश्रयकत्वम् ( राम० १ प० ३५)। यथा आकाशत्वस्यैकमात्रवृत्तित्वम् । अत्र भेदश्च व्यासज्यवृत्तिधर्मानवच्छिन्नप्रतियोगिताकत्वेन विशेषणीयः (राम०१ प०३५)। स्वप्रतियोगिवृत्तित्वस्वासमानाधिकरण्यएतदुभयसंबन्धेन 'भेदविशिष्टा
न्यत्वमिति निष्कर्षः । इदं च आकाशत्वादेर्जातित्वे बाधकम्। एकवाक्यत्वम्-१ [क] विशिष्टैकार्थप्रतिपादकत्वम् ( ग० २ अव० . पृ० २ )। निरूप्यनिरूपकभावापन्नविषयताशालिबोधजनकत्वमित्यर्थः । यथा देवदत्तो ग्रामं गच्छतीति वाक्यस्यैकवाक्यत्वम् । [ख] तत्प्रयोज्यविषयतया साक्षात्परंपरया वा निरूपिता या विषयता तत्प्रयोजकत्वम् (ग० व्यु० का०.१ पृ० २७ )। अत्र तत्पदजन्यज्ञाननिरूपितत्वेन तत्पदप्रयोज्यत्वव्यवहारो विषयतायामिति बोध्यम् । अत्र विशेष्यताद्वयनिरूपितैकप्रकारताशालिज्ञानजनकवाक्ययोरेव एकवाक्यत्वम् इति नियमो ज्ञेयः ( कृष्ण० )। [ग] तदुत्थाप्याकाङ्क्षानिवर्तकत्वतन्निवर्तनीयाकाङ्कोत्थापकत्वएतदन्यतरवत्त्वम् ( ग० २ अव० पृ० २) । यथा प्रतिज्ञादिपञ्चवाक्यैरेकवाक्यतया स्वार्थविशिष्टज्ञानं जन्यते (चि० २ अव० पृ० ७६ ) इत्यादी प्रतिज्ञादीनां पश्चानामवयवानामेकवाक्यत्वम्। तदुत्थाप्याकाङ्क्षानिवर्तकत्वं च तत्प्रतिपाद्यार्थविषयकज्ञानजन्या या आकाङ्क्षा तत्प्रतियोगिकनिवृत्ति जनकज्ञानजनकत्वम् । इदं च हेतूदाहरणादीनामेकवाक्यत्वम् । अत्र तत्पदं प्रतिज्ञापरम् । तन्निवर्तनीयाकाङ्कोत्थापकत्वं च तत्प्रतिपाद्यार्थविषयकज्ञानजन्या या निवृत्तिः तत्प्रतियोग्याकाडाजनकज्ञानजतकत्वम् । इदं च प्रतिज्ञादीनामेकवाक्यत्वमित्यवधेयम् । अत्र तु तत्पदं हेत्वादिपरम् । [घ] खभिन्नत्वस्वानवच्छिन्नत्वस्वसामानाधिकरण्यएतत्रितयसंबन्धेन विषयताविशिष्टविषयताशून्यबोधजनकवाक्यत्वमित्यस्मद्गुरुभिकुशास्त्रिचरणाः प्राहुः । एकवाक्यं द्विविधम् । पदैकवाक्यम्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org