________________
१८७
न्यायकोशः। एकदेशान्वयः-समस्तादसमस्ताद्वा पदादुपस्थितस्यार्थस्य घटको योर्थः
तेन सह तादृशपदार्थाघटकपदार्थान्वयः। यथा चैत्रस्य पितेत्यादौ । अत्र समस्तादित्यत्र समासः वैयाकरणसंमतानां कृत्तद्धितैकशेषसनाद्यन्तानामवशिष्टानां चतसृणां वृत्तीनामुपलक्षणम् इति ज्ञेयम् । चैत्रस्य पितेत्यत्र जनकत्वविशिष्टपुंसः पितृपदार्थत्वेन तदेकदेशेन जनकत्वेन सह चैत्रपदार्थस्य निरूपितत्वसंबन्धेनान्वयादेकदेशान्वयो ज्ञेयः । अत्रेदं बोध्यम् । पदार्थः पदार्थेनैवान्वेति न तु पदार्थैकदेशेन इति नियमोस्ति । परंतु ससंबन्धिकस्थल एकदेशेप्यन्वयस्वीकारात्तादृशनियमोपवाद्य एवेति। एकस्मिन् दृष्टे श्रुते वा अपरसंबन्धिनः स्मरणं. ससंबन्धिकपदार्थः । यथा हस्तिहस्तिपकादिरिति (म० प्र० ४ पृ० ४८) । अथवा नित्यसाकाझं ससंबन्धिकपदार्थः । यथा चैत्रस्य गुरुकुलम् मैत्रस्य दासभार्येत्यादौ गुरुत्वदासत्वादी चैत्रमैत्रपदार्थयोरन्वयस्य नित्यसाकाङ्कत्वेनैकदेशान्वयः सह्यत एव इति । तथा च चैत्रस्य पितेत्यादावेकदेशान्वयो
युक्त एव (न्या० म० ४. पृ० १४ )। एकपदत्वम्-[क] एकार्थविषयकशक्तिनिरूपकत्वम् । यथा राम इति
पदस्यैकपदत्वम् । अत्र व्युत्पत्तिः एकं पदं पदोच्चारणयोग्यकालो यत्र तस्य भाव इति ( वाच०)। अत्रार्थनिष्ठमेकत्वं च तदितरावृत्तिस्तव्यक्तित्वादिरूपोसाधारणधर्म एवेति न काचिदनुपपत्तिरिति । [ख] शक्तिनिरूपकाभाववदुत्तरत्वे सति शक्तिनिरूपकत्वम् । यथा घट इत्यस्यैकपदत्वम् । [ग] अखण्डपदत्वमिति शाब्दिका वदन्ति ।
अत्राखण्डत्वं च पदत्वाभाववदुत्तरखण्डकत्वम् ।। एकप्रसरतामङ्गः-(दोषः) एकस्यां वृत्तौ या प्रसरता घटकतया प्रविष्टता।
अत्र चोद्देश्यविधेयभावाप्रतीतिः ( मी० न्या० पृ० ३७ )। एकभक्तम्-दिनार्धसमयेतीते भुज्यते नियमेन यत् । एकभक्तमिति प्रोक्तमतस्तत्स्याद्दिवैव हि ॥ (पु० चि० हे० स्का० पृ० ४३ ) । न्यून प्रासत्रयेण तु इति चतुर्थचरणे पाठान्तरम् । तदहोरात्रावयवान्तरा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org