________________
હ
न्यायकोशः ।
एकत्वम् – (संख्या) [ क] एकम् इति प्रतीतिविषयो गुणविशेषः यथा गगनमेकम् काल एक इत्यादावेकत्वम् । रूपरसगन्धस्पर्शव्यतिरेकादर्थान्तरमेकत्वम् (वै० ७१२।१ ) इत्येवमेकत्वस्य सूत्रकृता अर्थान्तरत्वमुक्तम् । [ ख ] धीविशेष विषयत्वम् । यथा एकः समवायः एकः अभाव इत्यादौ समवायादीनामेकत्वम् (वै० वि० ७२ ।१ ) । [ग] स्वरूपाभेद् इति भूषणमतम् (वै० उ० ) (वै० वि० ७।२।१ ) । यथा घटगतमेकत्वं घट स्वरूपमेव । [घ] स्वसजातीयनिष्ठभेद् प्रतियोगितानवच्छेद के कत्वम् । यथा संपन्नो व्रीहिरित्यादौ व्रीह्मादिगतमेकत्वं सुबर्थः (ग० व्यु० का ० १ पृ० २ ) । तथा च स्वप्रकृत्यर्थ सजातीयः स्वसमभिव्याहृत पदार्थ संसर्गित्व विशिष्टश्च यः तन्निष्ठभेद प्रतियोगितानवच्छेदकैकत्वमिति समुदितार्थः । साजात्यं च स्वसमभिव्याहृतपदार्थ संसर्गित्वविशिष्टप्रकृत्यर्थतावच्छेदकरूपेण बोध्यम् (ग० व्यु० का० १५० २ ) । स्वसजातीयेत्यत्र स्वं व्रीह्यादिनिष्ठ मेकत्वमिति वङ्गदेशीया आहुः । परे तु स्वम् एकवचनप्रकृत्यर्थः। स्वसमभिव्याहृतेत्यत्र स्त्रं तु एकवचनमित्याहुः । वयं तु उभयस्वपदाभ्यामेकवचनमेव ग्राह्यमिति ब्रूमः । इदं च पारि भाषिकं सजातीयद्वितीयरहितत्वरूपमेकत्वमिति बोध्यम् । अत एव पशुना यजेतेत्यादौ पशुनिष्ठता शेकस्वस्य विवक्षितत्वादने कपशुकरणकयागान्नादृष्टसिद्धि: ( ग० व्यु० का० १ पृ० २ ) । अत्राहुः । पशुना रुद्रं यजेतेत्यादौ स्वप्रकृत्यर्थ सजातीयः ( स्वसमभिव्याहृतपदार्थ संसर्गित्वविशिष्ट प्रकृत्यर्थतावच्छेदकरूपविशिष्टः ) यागीयपशुरेव । तन्निष्ठभेदप्रतियोगितानवच्छेदकम् एतत्पशुनिष्ठमेकत्वमेव बोध्यत इति नानेकपशुकरणकयागाददृष्टसिद्धिः इति । संपन्नो व्रीहिरित्यत्र लक्षणसमन्वयस्त्वित्थम् । स्वं व्रीहिपदोत्तरमेकवचनम् सुप्रत्ययः । स्वस्य समभिव्याहृतं संपन्नः इति पदम् । तदर्थप्रतियोगिक संसर्गित्वविशिष्टं प्रकृत्यर्थतावच्छेदकं व्रीहित्वम् । एतादृशरूपेण स्वसजातीय एतद्वीहिरेव । तन्निष्ठो भेदोन्यनिष्ठैकत्ववद्भेद एव ( न त्वेतद्व्रीहिनिष्ठैकत्ववद्भेदः ) । तत्प्रतियोगितानवच्छेदकम् एतद्रीहिगतमेकत्वं भवति इति ।
1
Jain Education International
For Personal & Private Use Only
ܟ
www.jainelibrary.org