________________
न्यायकोशः।
एकः-[क] सजातीयनिष्ठभेदाप्रतियोगी। यथा अत्रायमेको भुङ्क्त इत्यादावेकपदार्थः । अत्र एतद्देशाधिकरणभोजनकर्तृनिष्ठभेदाप्रतियोगी भुङ्क्ते इत्याकारकबोधः ( ग० श० पृ० १२४)। [ख] केवलः । कैवल्यं च द्वितीयरहितत्वम् । एवं च तत्तत्क्रियाकर्तृत्वादिविशिष्टसजातीयराहित्यम् । यथा अयमेकोत्र भुत इत्यादाविति शाब्दिका आहुः । अत्र एतद्देशाधिकरणकभोजनकर्तृसजातीयरहितो भुङ्क्ते इति बोधः । द्वितीयशब्दश्च सजातीये सहाये रूढः ( ल० म०) । अत्र गदाधरः कैवल्यं च
सजातीयद्वितीयरहितत्वम् इत्याह ।। एककार्यकारित्वम्-एककार्यत्ववदस्यार्थीनुसंधेयः । एककार्यत्वम्-(संगतिः) १ एककार्यानुकूलत्वम् ( म०प्र० पृ०१५)।
अत्रार्थे एकं कार्य ययोः कारणयोः तयोर्भावः इति व्युत्पत्तिः (जग०)। बहुव्रीहेरनन्तरं त्वप्रत्ययः । यथा गुणागुणमनासङ्गमेककार्यमनन्तरम् । एतत्तु ब्रह्मणो वृत्तमाहुरेकपदं द्वयम् ॥ ( भा० व० अ० २१२) (वाच०.) । इदं तु कार्यैक्यमित्यप्युच्यते । २ एकस्य ( कारणस्य ) कार्यता ( प्रयोज्यता कार्ययोः) । सा च जन्यता जन्यज्ञानविषयता च (भवा० ) ( वै० सा० द०)। यथा ईश्वरशक्त्योरनुमानाजन्यत्वेपि तज्जन्यज्ञानविषयत्वलक्षणैककार्यत्वसंगत्या ईश्वरवादानन्तरं मीमांसकेन शक्तिराशङ्किता । नैयायिकेन च ईश्वरसिद्ध्यनन्तरं शक्ति निरस्य परमप्रयोजनं त्वनुमानस्यापवर्गः इत्यनेन ईश्वरसिद्ध्यपवर्गयोरनुमानजन्यत्वलक्षणैककार्यत्वं संगतिः सूचिता ( भवा० )। एकत्र द्वयम् इति रीत्या जायमानं ज्ञानम्- उभयप्रकारतानिरूपितैकविशेष्यताशालिज्ञानम् ( ल० व० पृ० ९)। यथा सुन्दरः पुरुषो दण्डी इत्याकारकं ज्ञानम् । अत्र सौन्दर्यदण्डयोः पुरुषे युगपद्विशेषणत्वेनान्वयविवक्षायां ज्ञानं तादृशं भवति । सौन्दर्यविशिष्टपुरुषे दण्डमात्रस्य दण्डविशिष्टपुरुषे वा सौन्दर्यमात्रस्य विशेषणत्वेनान्वयविवक्षायां तु विशिष्टे वैशिष्ट्यम् इति रीत्या ज्ञानं जायते इति ज्ञेयम् । १४ न्या. को.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org