________________
न्यायकोशः। उरूकः- १ उलूकनामा पक्षिविशेषः । २ मेदखिनी वपा । उरु विस्तीर्णमूको मेदो यत्र इत्यवयवार्थः ( जै० न्या० अ० ९ पा० ४
अधि० ४) उष्णत्वम्-स्पर्शनिष्ठो जातिविशेषः । यथा स्पर्श उष्णस्तेजसस्तु (भा०प०
श्लो० ४२ ) इत्यादौ । उष्णस्पर्शवत्तेजः (मु० १ पृ० ७७ ) इत्यादौ च । सूतके मृतके चैव न स्नायादुष्णवारिणा इत्यादौ उष्णशब्दस्य उष्णस्पर्शवदित्यर्थो बोध्यः ।
ऊर्ध्वा (दिक् ) अदृष्टवदात्मसंयोगजन्याग्निक्रियाजन्यसंयोगाश्रयो दिक्
(वै० उ० २।२।१० )। यथा ऊवं गत इत्यादौ । एवं च इन्द्राग्नियमनिऋतिवरुणवायुसोमेशाननागब्रह्माधिष्ठानोपलक्षिता दश दिश इति
व्यपदेशान्तरम् प्राच्यादिव्यपदेशात् (वै० उ० २।२।१० )। ऊष्मा-१ उष्णस्पर्शः ( राम० १ पृ० ७० ) । यथा चक्षुरूष्मादिसंतते:
(मु० १ पृ० ६८ ) इत्यादौ । २ तेजोद्रव्यस्य सूक्ष्मावयवः ( भा०) ( वाच०)। यथा यथामेधूम उदयते एवमेषामूष्मोदयते ( शत० ब्रा० १।६।२।१।५) इत्यादौ । ३ श ष स ह एते वर्णा ऊष्माण इति
शाब्दिका आहुः ( वाच० )। ऊहः-१ तर्कः । स च [क] परीक्षणम् । [ख ] अनुमानम् । यथा
उहः ( जै० सू० १।२।५२ ) इत्यादौ । न पिता वर्धते न माता इत्युक्ते अन्ये वर्धन्त इति गम्यते ( शाबरभा० १।२।५२ )। [ग] अध्याहारः। [घ] कल्पनम् । अन्वययोग्यविभक्त्यादिकल्पनमित्यर्थः । यथा पार्वणे सौम्यास इति बहुवचनसमन्वितमपि एकोद्दिष्टे अनन्वितत्वात् सौम्यः इत्येकवचनान्ततया कल्प्यते। यथा वा अग्नये जुष्टं निर्वपामि इत्यस्य सौर्ये चरौ सूर्याय जुष्टं निर्वपामि इत्येवं पदान्तरक्षेप उहः (जै० न्या० अ० २ पा० १ अधि० ९)। [3] प्राकृतस्थानपतितपदार्थान्तरकार्यतः । ऊहः प्रयोगो विकृत ऊह्यमानतयोदितः ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org