________________
न्यायकोशः ।
१७९: धिकरण निष्ठा यावन्तो धर्मा आर्द्रेन्धनत्वावच्छिन्न समानाधिकरणा भवन्ति । अतस्तद्वदार्द्रेन्धनमुपाधिः ( न्या० म० २ ० २३ ) । यथा वा ( २ ) वायुः प्रत्यक्षः प्रत्यक्षस्पर्शाश्रयत्वादित्यत्रोद्भूतरूपवत्त्वमुपाधिः । भवति हि उद्भूतरूपत्वावच्छिन्नानधिकरणं यत् प्रत्यक्षस्पर्शाश्रयत्वावच्छिन्नम् वायुः तन्निष्ठो धर्मः बहिर्द्रव्यत्वम् तदवच्छिन्नं साध्यम् प्रत्यक्षत्वम् । तदधिकरणं यत् घटपटाद्येव तन्निष्ठा यावन्तो धर्मा उद्भूतरूपत्वावच्छिन्न समानाधिकरणा भवन्ति । अत उद्भूतरूपवत्त्वमुपाधिः ( न्या० म० २ ० २३ ) । यथा वा ( ३ ) स श्यामो मित्रातनयत्वादित्यत्र शाकपाकजत्वमुपाधिः । भवति हि शाकपाकजत्वत्वावच्छिन्नानधिकरणं यन्मित्रातनयत्ववत् अन्यः अश्यामो मित्रा - तनयः तन्निष्ठं यत् मित्रातनयत्वम् तदवच्छिन्नं श्यामत्वम् । तदधिकरणं यत् श्यामो मित्रातनयः तन्निष्ठा यावन्तो धर्माः शाकपाकजत्वत्वावच्छिन्नसमानाधिकरणा भवन्ति । अतस्तद्वच्छाकपाकजत्वमुपाधिः । ( न्या० म० २ पृ० २३ ) । यथा वा (४) घटरूपं प्रत्यक्षं प्रमेयत्वादित्यादौ उद्भूतरूपमुपाधिः । भवति हि उद्भूतरूपत्वावच्छिन्नानधिकरणं यत् प्रमेयत्ववत् चक्षुरादि तन्निष्ठो यत्किंचिद्धर्मः बहिर्द्रव्यत्वम् उदासीनधर्मः तदवच्छिन्नं प्रत्यक्षत्वम् तदधिकरणं यत् घटपटादि तन्निष्ठा यावन्तो धर्मा उद्भूतरूपत्वावच्छिन्न समानाधिकरणा भवन्ति । अतं उद्भूतरूपमुपाधि: ( म०प्र० २ पृ० २९ - ३० ) । एवं च वक्ष्यमाणचतुर्विधविभागविभक्तस्योपाधिचतुष्टयस्य यथाक्रममुदाहरणचतुष्टयमेतदिति विज्ञेयम् । [ ङ ] साध्यव्यापकत्वे सति साधनाव्यापक उपाधिरित्युदयनाचार्या : ( न्या० म० २ ० २१ ) ( त० कौ० २ पृ० १५ ) ( त० सं० ) ( दीधि० २ पृ० १०५ ) । यो व्यापकत्वे सति यदव्यापकः स तत्रोपाधिरिति निर्गलितोर्थ : (दीधि० २०९२ ) । यस्य यद्धर्मावच्छिन्नसाध्यव्यापकत्वं तद्धर्मावच्छिन्न साधनाव्यापकत्वं च स तत्साध्यकतद्धेतावुपाधिरित्यर्थः । भवति च तत् आर्द्रेन्धनम् साध्यस्य धूमस्यं व्यापकम् । यत्र यत्र धूमस्तत्रार्द्रेन्धनम् इति नियमसत्त्वात् ।
1
1
.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org