________________
न्यायकोशः। जातिरूपाः । सामान्यत्वादयस्तु तद्भिन्नाः । जातिभिन्नो धर्मोपि द्विविधः सखण्डोपाधिः अखण्डोपाधिश्चेति । तत्राद्यः आकाशत्वादिः (सि०च० पृ० ३)। द्वितीयः प्रमेयत्वकुण्डलित्वप्रतियोगित्वादिः ( त० कौ० पृ० २० )। ३ वृत्तिमत् । यथा उपधेयसंकरेप्युपाध्यसंकरः ( चि० २ पृ० ८७ ) इत्यादौ धर्ममात्रमुपाधिः । यथा वा जन्यमानं क्रियामात्रं वा कालोपाधिरित्यादौ । ४ स्वरूपम् । ५ मायावादिनस्तु स्वसामीप्यादिना अन्यस्मिन् स्वधर्मारोपसाधनं विशेषणविशेषः । यथा उपाधिभेदेष्येकस्य नानायोग आकाशस्येव घटादिना । गतिश्रुतिरप्युपाधियोगादाकाशवत् ( सां० सू० ) उपाधिना क्रियते भिन्नरूपः ( श्रुतिः ) कार्योपाधिरयं जीवः कारणोपाधिरीश्वरः इत्यादावुपाधिः इत्याहुः ( वाच० ) । ६ शक्तिरिच्छा चेति वेदान्तिनः । ७ हेत्वाभासविशेषप्रयोजकीभूतोर्थः। [क] यद्वयभिचारित्वेन साधनस्य साध्यव्यभिचारित्वं सः । उदयनाचार्यमते उपाधिपदं योगरूढम् । अत्र व्युत्पत्तिः । उप समीपवर्तिनि आदधाति संक्रामयति स्वीयं धर्ममित्युपाधिः इति । यद्धर्मबोधकशब्दसमभिव्याहारेण चोपाधिपदं प्रयुज्यते तद्धर्मसंक्रामकत्वं तद्बोधयति । यथा स्फटिकलौहित्ये जपाकुसुममुगधिरित्यत्र लौहित्यसंक्रामकत्वम् । प्रयुज्यते च शास्त्रे व्याप्यत्वबोधकशब्दसमभिव्याहारेण तत् अत्र साधने असावुपाधिरिति । अतो व्याप्तिसंक्रामकत्वलाभः (दीधि०२ पृ०९६)। इत्थं च धूमवान्वढेरित्यादौ धूमसामग्र्यादिकमुपाधिः । स्फटिकलौहित्ये जपाकुसुममिव धूमसामग्र्यादेः स्वसमवहितवह्नौ स्वनिष्ठधूमव्याप्त्याधायकत्वात् ( म० प्र० २ पृ० २८ )। [ख] यः साधनव्यभिचारी साध्यव्यभिचारोन्नायकः सः ( चि० २ पृ० २६ )। साध्यव्यभिचारोनायकत्वं च साध्यव्यभिचारानुमापकत्वम् । उपाधेर्दूषकताबीजं तु खव्यभिचारेण साधने साध्यव्यभिचारोन्नायकत्वम् । तथाहि धूमवान्वह्नरित्यत्र आर्टेन्धनमुपाधिरित्युपन्यासानन्तरं वह्निधूमव्यभिचारी धूमव्यापकार्टेन्धनव्यभिचारित्वात् यो यद्वथापकव्यभिचारी स तद्वयभिचारी यथा द्रव्यत्वव्यापकगुणवत्त्वव्यभिचारि प्रमेयत्वं द्रव्यत्वस्यापि व्यभिचारि इति २३ न्या० को.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org