________________
न्यायकोशः। पत्त्यनुकूलव्यापारः । यथा शिष्यं धर्म 'वदति वक्ति ब्रूते उपदिशति आचष्टे इत्यादौ वदप्रभृतिधात्वर्थः । अत्र धात्वर्थघट कप्रतिपत्तौ शिष्यस्याधेयत्वेन धर्मम्य च विषयत्वेनान्वयात् धर्मविषयिणी या शिष्यनिष्ठा प्रतिपत्तिस्तदनुकूलव्यापारवान् इत्याकारको बोधः । अत्र तादृशव्यापारो धर्मः सेव्यताम् इत्यादिको गुर्वाद्यभिलापः ( श० प्र० पृ० ९८ )। ३ अनुशासनम् । यथा आर्ष धर्मोपदेशं च वेदशास्त्राविरोधिना । यस्तर्केणानुसंधत्ते स धर्म वेद नेतरः ॥ (मनु० अ० १२ श्लो० २०६) इत्यादौ । ४ हितकथनं ५ प्रवर्तकवाक्यं वा। यथा धर्मोपदेशं दर्पण विप्राणामस्य कुर्वतः ( मनु० अ० ८ श्लो० २७२ ) इत्यादौ । ६ शिष्याय सविधानं मत्रकथनमुपदेश इति मात्रिकाः । ७ दीक्षाभेद इति तान्त्रिकाः ( वाच० ) । ८ आद्योच्चारणमुपदेश इति शाब्दिका वदन्ति । तदुक्तम् धातुसूत्रगणोणादिवाक्यलिङ्गानुशासनम् । आगमप्रत्ययादेशा उपदेशाः प्रकीर्तिताः ॥ इति । ९ यत्रापेक्षितस्यार्थजातस्य प्रतिपादको ग्रन्थसंदर्भः पठ्यते स उपदेश इति मीमांसकाः ( जै० न्या० अ० ७ पा० १ अधि० १ )। उपधा-१ कामक्रोधादयो भावदोषाः । एते अधर्मजनकाः (त० व०)।
२ धर्मार्थकामाद्युपन्यासेनामात्यपरीक्षणम् । यथा चिन्तावन्तः कथां चक्रुरुपधाभेदभीरवः (भट्टिः) इत्यादौ इति नीतिशास्त्रज्ञाः । ३ छलम् । यथा उपधाभिश्च यः कश्चित्परद्रव्यं हरेन्नरः ( मनु० अ० ८ श्लो० . १९३ ) इत्यादौ इति व्यवहारज्ञाः । ४ अलोन्त्यात्पूर्व उपधा ( पा०
सू० १।१।६५ ) इति शाब्दिका वदन्ति ( वाच०)। ५ परवश्चनेच्छा
(प्रशस्त० गु० कामनि० पृ० ३३ )। उपधानम्-१ उपधायकत्ववदस्यार्थीनुसंधेयः। २ व्रतविशेष इति धर्मज्ञाः।
३ विशेषः । ४ प्रणयश्च इति काव्यज्ञा आहुः । ( वाच० )। उपधायकत्वम्-१ ( कारणत्वम् ) अव्यवहितपूर्ववृत्तित्वसंबन्धेन फल
विशिष्टत्वम् । यथा परामर्शस्यानुमित्यात्मकफलोपधायकत्वम् । यथा वा विशेषणज्ञानस्य विशिष्टज्ञानात्मकफलोपधायकत्वम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org