________________
न्यायकोशः। उपचारच्छलम्-( छलम् ) [क] धर्मविकल्पनिर्देशेर्थसद्भावप्रतिषेध उपचारच्छलम् (गौ० १।२।१४ ) । अभिधानस्य धर्मो यथार्थप्रयोगः । धर्मविकल्पोन्यत्र दृष्टस्यान्यत्र प्रयोगः । तस्य निर्देशे धर्मविकल्पनिर्देशे। यथा मश्वाः क्रोशन्तीति । अर्थसद्भावेन प्रतिषेधः मञ्चस्थाः पुरुषाः क्रोशन्ति न तु मञ्चाः क्रोशन्ति (वात्स्या० १।२।१४)। [ख] शक्तिलक्षणयोरेकतरवृत्त्या प्रयुक्त शब्दे तदपरवृत्त्या यः प्रतिषेधः स उपचारच्छलम्। यथा मश्वाः क्रोशन्ति इत्यत्र मञ्चस्था एव क्रोशन्ति न तु मश्चाः । एवम् नीलो घट इत्यत्र घटस्य कथं नीलरूपाभेदः । एवम् अहं नित्य इति शक्त्या प्रयुक्ते अमुकस्मादुत्पन्नस्त्वं कथं नित्य इति प्रतिषेधोप्युपचारच्छलम् । वाद्यभिप्रेतार्थस्यादूषणेन छलस्यासदुत्तरत्वम् (गौ० वृ० १।२।१४ )। [ग] उपचारप्रयोगेषु गौणलाक्षणिकेषु यः । मुख्यार्थासंभवाद्वाध
उपचारच्छलं च तत् ।। इति । (ता० र० परि० १ श्लो० ९६-९७)। उपजीवकत्वम्-[क] कार्यत्वम् । यथा घटस्य दण्डोपजीवकत्वम् । यथा
वा संगतिश्च प्रत्यक्षेणोपजीव्योपजीवकभाव इत्यादावनुमाने प्रत्यक्षकार्यत्वम् (राम० २ पृ० १३४)। [ख] प्रयोज्यत्वम् । यथा शाब्दबोधस्योपमितिप्रयोजकत्वम् (राम० १३४ ) इत्यत्रोपमितेः प्रयोज्यत्वम् । उपजीवी-प्रयोज्यः । यथा शब्दतदुपजीविप्रमाणातिरिक्तप्रमाणगम्यार्थको
दृष्टार्थकः शब्दः (गौ०वृ०१।१।८) इत्यादौ ग्रन्थे उपजीविन् शब्दस्यार्थः । उपजीव्यत्वम्-१ [क] कारणत्वम् । [ख] प्रयोजकत्वम् । उदाहरणं
तु पूर्वोक्तमेवात्रानुसंधेयम् । उपजीव्यत्वं च द्विविधम् । स्वसत्ताप्रयोजकत्वम् स्वज्ञानप्रयोजकत्वं च । उपजीव्योपजीवकभावश्च ज्ञानसत्त्वयोः प्रयोज्यप्रयोजकभावः । यथा एकस्यान्यसत्ताप्रयोजकत्वम् अपरस्य च तत्प्रयोज्यसत्ताकत्वम् । एवम् अन्यज्ञानप्रयोजकत्वम् अन्याधीनज्ञानविषयत्वम् । २ काव्यज्ञास्तु उपजीवनोपायवान् । यथा सूचकाः सेतुभेत्तारः परवृत्त्युपजीवकाः । अकृतज्ञाश्च मित्राणां ते वै निरयगामिनः ॥ ( भा० आ० अ० २३ ) इत्यादी इत्याहुः ( वाच० )। उपदेशः- १ शब्दः (गौ० वृ० २।१।५२ ) । यथा आप्तोपदेश
सामर्थ्याच्छब्दार्थे संप्रत्ययः (गौ० २।१।५२ ) इत्यादौ । २ प्रति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org