________________
१५५
न्यायकोशः। उदाहरणाभासः-निदर्शनाभासशब्दवदस्यार्थीनुसंधेयः। उदीची—(दिक्) [क] प्राच्यभिमुखपुरुषवामप्रदेशावच्छिन्ना दिगुदीची
(वै० उ० २।२।१० ) (वै० २।२।१५)। अत्र वामत्वं तु शरीरावयववृत्तिजातिविशेषः ( वै० उ० २।२।१०)। [ख] मेरुसंनिहितदेशावच्छिन्ना दिक् (वाक्य० १ पृ० ५) (न्या० बो० १ पृ०३)।
यथा झळकीग्रामादुदीच्यां सोलापुरग्रामः । उद्देशः-१ [क] नामधेयेन पदार्थमात्रस्याभिधानम् (वात्स्या० १११।२)
(त. भा० पृ० १) (त० दी० १ पृ० ७)। यथा प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्त ( गौ० १।१।१ ) इत्याद्यभिधानम् (त० भा० पृ० १ ) । यथा वा पृथिवीजलतेजस्वायुआकाशकालदिश्आत्ममनांसि इत्याद्यभिधानम् । [ख] वस्तुप्रतिपादकनाममात्रम् (नील. १ पृ० ७)। [ग] लक्ष्यतावच्छेदकमात्रेण लक्ष्यसंकीर्तनम् ( त० कौ० पृ० २१ )। यथा द्रव्यं गुणः कर्मेत्यादिकथनम् । [घ ] संज्ञामात्रेण पदार्थानामभिधानम् । २ इच्छाविशेषः । ३ शाब्दिकास्तु उपदेशदेशः । तत्र देशश्वोच्चारणकालः । यथा यथोद्देशं संज्ञापरिभाषम् इत्यादावित्याहुः । ४ समासकथनमुद्देश इति सुश्रुतोक्तस्तत्राधिकरणभेदः ।
५ काव्यज्ञास्तु उत्कृष्टप्रदेशः। ६ संक्षेपश्वोदेशशब्दार्थ इत्याहुः (वाच०)। उद्देश्यत्वम्-[क] विषयताविशेषः। यथा पर्वतो वह्निमान इत्यनुमितौ
पर्वतस्योद्देश्यत्वम् । विषयताविशेषश्चानुमितौ शाब्दबोधे च योजनीयः। प्रवृत्ती तूद्देश्यत्वं स्वजनकेच्छाविषयत्वम् । यथा स्वर्गकामो यजेतेत्यादिवाक्यजनितेष्टसाधनताज्ञानतः स्वर्गफलोद्देशेनैव यागे प्रवृत्तिः इति स्वर्गस्य तत्रोद्देश्यता (वाच०) । अत्रेदं बोध्यम् । यमुद्दिश्य विधेयप्रवृत्तिः तदुद्देश्यमनुवाद्यम् । उद्देश्यविधेयभावस्थलेयं नियमः उद्देश्यवाचकपदस्य विधेयवाचकपदात्प्राक् प्रयोगः कर्तव्यः इति । तत्रोक्तम् अनुवाद्यमनुक्त्वैव न विधेयमुदीरयेत् इति ( वाच०) । यथा पर्वतो वह्निमानित्यत्र पर्वतः । [ख] इच्छाविशेष्यत्वमिति केचित् (न्या० र०)। [ग] इच्छाविषयत्वम् । यथा. पर्वतत्वावच्छेदेन साध्यसिद्धरुदेश्यतायाम्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org