________________
न्यायकोशः। वर्तते ॥ इति ( पदार्थादर्श ) ( वाच०)। [ख] अथ योस्योर्ध्वः सुषिः
स उदानः स वायुः स आकाशः (छान्दो० उ० ३।१३।५)। उदारत्वम्-सहकारिसंनिधिवशात्कार्यकारित्वम् ( सर्व० सं० प्र० ३६०
पातञ्ज०)। उदासीनत्वम्-विहित निषिद्ध एतदुभयविपरीतत्वम् । यथा उदासीनं
वाक्यम् इत्यादावुदासीनशब्दस्यार्थः । शिष्टं तु तटस्थशब्दव्याख्यानादौ
दृश्यम् । उदाहरणम्- ( न्यायावयवः) [क] साध्यसाधर्म्यात्तद्धर्मभावी दृष्टान्त
उदाहणम् ( गौ० १११।३६ )। दृष्टान्तो दृष्टान्तवचनम् । दृष्टान्तकथनयोग्यावयवः इत्यर्थः (गौ० वृ० १।१।३६)। हेतावुक्ते कथमस्य गमकत्वम् इत्याकाङ्क्षायां व्याप्तिपक्षधर्मतयोः प्रदर्शनप्राप्ती व्याप्तेः प्राथम्यात् तत्प्रदर्शनायोदाहरणम् (चि० २ पृ० ८०)। व्याप्तिज्ञानमुदाहरणस्य प्रयोजनम् ( त० दी० २ पृ० २२ ) । उदाहरणत्वं च अनुमितिहेतुलिङ्गपरामर्शपरवाक्यजन्यज्ञानजनकव्याप्यत्वाभिमतवन्निष्ठनिय - तव्यापकत्वाभिमतसंबन्धबोधजनकशब्दत्वम् (चि० २ अव० पृ०८०)। यद्वा अवयवान्तरार्थानन्वितार्थकावयवत्वम् (गौ० वृ० १।१।३६ )। अथवा इतरार्थान्वितस्वार्थाबोधकन्यायावयवत्वम् (दीधि०२ पृ० १७७)। तद्यथा यो यो धूमवान् स सोग्निमानिति शब्दवृत्त्यवयवविभाजकोपाधिमत्त्वम् (न्या० म० २ पृ. २३-२४ ) । [ख] व्याप्तिप्रतिपादकं दृष्टान्तवचनम् (त० दी० २ पृ० २२ ) । तदर्थश्च प्रकृतहेतुमति प्रकृतहेतुव्यापकत्वविशिष्टसाध्यबोधकवाक्यम् । उदाहरणघटकसाध्यपदान्निरूढलक्षणया हेतुव्यापकत्वविशिष्टस्य साध्यस्य बोधनात् उदाहरणस्य व्याप्तिप्रतिपत्तिपरत्वमक्षतमिति बोध्यम् ( नील० २ पृ० २२-२३)। यथा पर्वते धूमेन वह्निसाधने यो यो धूमवान्स सोनिमान् यथा महानसः इति वाक्यमुदाहरणम् (त० भा० २ पृ० ११)। [ग] उपनयाभिधानप्रयोजकजिज्ञासाजनकवाक्यमुदाहरणमित्यन्ये (चि० २ अव० पृ० ८० )। उदाहरणं द्विविधम् । अन्वय्युदाहरणम् व्यतिरेक्युदाहरणं चेति (गौ० वृ० १।१।३५)(चि०२ पृ० ८०)।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org