________________
१५६
न्यायकोशः ।
I
(दीधि० २ पृ० १६८) इत्यादौ । यथा वा वैयाकरणमते विप्राय गां ददातीत्यादौ विप्रे गोस्वामित्वभागितयेच्छाविषयत्वमुद्देश्यस्वम् (वै० सा० द० सु० पृ० १९४ ) । [घ] प्रकृतत्वम् ( दीधि० २ पृ० १६७ ) । यथा उद्देश्यानुमितिहेतुलिङ्गपरामर्श प्रयोजकेत्यादौ ( चि० २ प्रतिज्ञाग्रन्थ० ) । [ङ ] शाब्दिकाश्च यच्छब्दप्रतिपाद्यत्वे सति सिद्धत्वेन प्रतीयमानत्वे सत्यनुवाद्यत्वमुद्देश्यत्वमिति वदन्ति । [च] मानान्तरप्राप्तत्वे सति विधेयान्वयित्वेन निवेश्यत्वमिति मीमांसकाः । [छ] मानसपेक्षो विषयत्वाकार उद्देश्यत्वम् (जै० न्या० अ० १ पा० ४ अधि० ६ ) । उद्बोधकत्वम् —– स्मृतिप्रयोजकत्वम् । यथा प्रणिधाननिबन्धादीनामुद्बोधकस्वम् ( गौ० ३।२।४२ ) । उद्बोधकानि च प्रणिधानादीनि स्मृतिजनकस्य संस्कारस्य सहकारीणि भवन्ति । अत्रेदं बोध्यम् । उद्बुद्ध एव संस्कारः स्मृतिं जनयति । तत्रोद्बोधश्च सहकारिलाभः ( त० भा० पृ० ३७ ) । स्मृतिजननाय संस्कारोद्दीपनम् ( वाच०) । स्मृतिप्रयोजकत्वं च कारणकारणतावच्छेदकसाधारणं ज्ञेयम् । तेन प्रणिधानादिषु कस्यचित्स्वरूपसतः कस्यचिज्ज्ञातस्यापि स्मारकत्वेपि नासंग्रहः । उद्बोधने च एकसंबन्धिज्ञानमपरसंबन्धिस्मारकम् इति प्रायिको नियमो द्रष्टव्यः । उद्भवः - १ [क] बाकै केन्द्रियग्रहण योग्य गुणत्वात्मक उपाधिः । स च रूपादिविशेषगुणगतो जातिविशेष एव रूपत्वादिव्याप्यः । अयं च रूपप्रत्यक्षे प्रयोजक इति ज्ञेयम् (वै० उ० ४ । ११८ ) । [ ख ] उद्भूतत्ववदस्यार्थोनुसंधेयः । [ग] अनुद्भवाभाव एवोद्भव इति केचित् (वै० उ० ४।१।८ ) । २ उत्पत्तिः ( मिता० अ० ३ पृ० ३९ ) । यथा विष्णुपादोद्भवा गङ्गा इत्यत्र स्थैर्यं चतुर्थे त्वङ्गानां पञ्च मे शोणितोद्भवः ( याज्ञ० स्मृ० अ० ३ श्लो० ८० ) इत्यादौ च ( वाच० )। उद्भूतत्वम्–[ क ] प्रत्यक्षत्वप्रयोजको धर्मविशेषः ( त० दी० १ पृ० १३ ) । स च रूपत्वव्याप्यजातिमत्त्वम् ( चि० १ ) । इयं जातिश्च घटादिगतशुक्लादिवृत्तिरिति विज्ञेयम् । उद्भूतत्वं च केषुचित् रूपरसगन्ध
1
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org