________________
न्यायकोशः ।
१५१ वक्तत्र्यतया मणिविशेषान्तरस्योत्तेजकत्वमुपपद्यत इति । २ प्रेरकत्वमिति काव्यज्ञाः । ३ उद्दीपकत्वं वर्धकत्वं वेत्याधुनिका लौकिकजना वदन्ति । उत्थाप्याकाङ्क्षा – (आकाङ्क्षा ) अनियताकाङ्क्षा ( राम० १ पृ० २ ) । यथा उदयति चन्द्रः कुमुदबान्धव इत्यादौ चन्द्रपद कुमुदबान्धवपदयोरनियताकाङ्क्षा । अत्र समाप्तपुनरात्तत्वाख्यः काव्यदोषोस्तीति बोध्यम् । उत्थिताकाङ्क्षा – ( आकाङ्क्षा ) नियताकाङ्क्षा । यथा क्रियाकारकपदानां परस्पराकाङ्क्षा । यथा वा पुत्रादिपदानां पित्रादिरूपप्रतियोगिवाचकपदाकाङ्क्षा नियता (राम ० १ पृ० २ ) । नियतत्वं चात्रावश्यंभावित्वम् । अत्र च पुत्र इत्युक्ते कस्येत्याकाङ्क्षोदयाद्देवदत्तस्येत्याद्यपेक्ष्यत इति देवदत्तस्येति षष्ठ्यन्तपदपुत्र पदयोर्नियताकाङ्केति ज्ञेयम् ।
1
1
उत्पत्तिः — अत्र बहवो विप्रतिपद्यन्ते । असतः सदुत्पद्यते इति बौद्धाः । प्रागुत्पत्तेरसत् कारणव्यापारादुत्पद्यते इति नैयायिकाः । स एव कार - णात् असतः कार्यस्य कारणव्यापारात् उत्पत्तिरित्यर्थः । उत्पत्तेः प्रागसत् उत्पत्तिकाले च सदिति तद्भावः । प्रागुत्पत्तेः सदपि कारणव्यापारादभिव्यज्यते इति सांख्याः मायावादि वेदान्तिनश्च प्रतिपेदिरे । यथा पीडनेन तिलेषु तैलस्य अवघातेन धान्येषु तण्डुलानाम् दोहनेन सौरमेयीषु पयसः अभिव्यक्तिः तद्वत् । तत्र सतो विवर्त इति मायावादिनां मतम् । परिणाम इति सांख्यानां मतम् ( वाच० )। उत्पत्तिशब्दार्थस्तु आद्यक्षणसंबन्धः । स च [क] स्वाधिकरणक्षणावृत्तिप्रागभावप्रतियोगिक्षणसंबन्धः ( आत्मत० व्या० शिरोम ० ) ( वाच० ) ( म० प्र० १ पृ० १२ ) ( त० प्र० १ ) । [ ख ] स्वाधिकरणध्वंसानधिकरणक्षणसंबन्धो वा (म०प्र० १ पृ० १२ ) ( त० प्र० १ ) । यथा उत्पत्तिमानभावो ध्वंस इत्यादावुत्पत्तिः । यथा वा घटपटादे - रुत्पत्तिः । स्वम् उत्पद्यमानत्वेनाभिमतं घटादि ( म०प्र० १ पृ०१२ ) । क्षणश्च स्वजन्यविभागप्रागभावावच्छिन्नं कर्म । अत्र स्वम् उत्पद्यमानं कर्म ( म०प्र० पृ० १२ ) । [ग] यो यत्कालवृत्तिध्वंसयोग्यवृत्तिस्तस्य तद्वृत्तित्वमुत्पत्तिरित्यपि केचित् ( दीधि० २ ) । [घ] स्ववृत्ति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org