________________
१५२
न्यायकोशः। ध्वंसप्रतियोगिकालावृत्तित्वविशिष्टस्ववृत्तित्वम् । इदं च महाप्रलये क्षणव्यवहारानङ्गीकारेपि महाप्रलयस्योत्पत्तिः संपद्यत इत्यभिप्रायेणोक्तमिति विज्ञेयम् ( दि० १ पृ० ९३ )। [] तदधिकरणक्षणावृत्तित्वव्याप्यस्ववृत्तिध्वंसप्रतियोगिताकसमयवृत्तित्वम् । तत्पदमुत्पत्स्यमानपदार्थपरम् । तथा च यदधिकरणक्षणावृत्तित्वस्य व्याप्या यत्समयवृत्तिध्वंसप्रतियोगिता तस्य तत्समयवृत्तित्वम् इति (राम० ११११९२ )। इदं च महाप्रलयस्यापि क्षणत्वं वर्तते इत्यभिप्रायेणोक्तमिति विज्ञेयम् ( दिन० १ पृ० ९२ )। [च ] यत्समयवृत्तिध्वंसप्रतियोगिताव्यापकं तत्कार्याधिकरणक्षणवृत्तित्वं तत्समयवृत्तित्वमिति केचित् (दि०)। सा द्विविधा । स्वत उत्पत्तिः परत उत्पत्तिश्च । तत्राद्या यथा मीमांसकनये स्वतः प्रमात्वस्योत्पत्तिः । द्वितीया यथा घटादीनामुत्पत्तिः । सकलकारणयोगपद्यमुत्पत्तिरिति केचित् । आत्मन उत्पत्तिस्तु देहसंगतिः ( ता० र०
श्लो० २१ )। उत्पत्तिकालावच्छिन्नत्वम्-स्वाधिकरणसमयध्वंसवदन्यकालसंबन्धः ( ग० पक्ष० पृ० ३९ ) । यथा यदा यो घट उत्पद्यते तदा तस्य घटस्य तत्कालावच्छिन्नत्वम् । यथा वा द्वितीयक्षणपर्यन्तावस्थायिनोपि ज्ञानादेरुत्पत्तिकालावच्छिन्नत्वम् । अथ वा तत्तदधिकरणसमयध्वंसाधिकरणसमयसंबन्धानामभावकूटविशिष्टत्वम् ( ग० २ प० पृ० ४१ )। उत्पत्तिविधिः-(विधिः ) कर्मस्वरूपमात्रबोधको विधिरुत्पत्तिविधिः (मी० न्या० पृ० ९)। तत्स्वरूपं द्विविधम् । द्रव्यं देवता चेति । यथा दर्शपूर्णमासे आग्नेयोष्टाकपालो भवति इत्यादि । ज्योतिष्टोमे सोमेन यजेत इति । कचित् अग्निहोत्रं जुहोतीत्यादौ रूपाश्रवणेप्युत्पत्तिविधि
त्वमस्त्येव ( म० प्र० ४ पृ० ६२ )। उत्पातः-शुभाशुभसूचको भूतविकारः । यथा वाताय कपिला विद्युदित्यादौ । अत्र ज्ञाप्यज्ञापकभावश्चतुर्थ्यर्थः । तथा च वातरूपज्ञाप्यज्ञापिका कपिला विद्युत् इति बोधः (ल० म० सुब० का० ४ पृ० १०५)।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org