________________
१४८
न्यायकोशः। ज्ञापनं ( ज्ञानानुकूलः शब्दः ) स्तुतिरित्यादौ । स च धर्मः कचिजातिः क्वचिद्दया कचिच्च दानादीनि । यथा त्वं ब्राह्मणः त्वं दयाशीलः त्वं दाता पुत्री इत्यादौ दयादीनामप्युत्कर्षत्वम् । अत्र दयादिष्वप्युत्कर्षव्यवहारेण तेषामप्युत्कर्षपदवाच्यत्वमिति बोध्यम् (मू० म० १ पृ० १०३)। यथा वा त्वमेव राजा इत्यादौ । अत्र च कश्चिद्दरिद्रो याचक उदारं धनिकं ग्राम्यप्रभुं वाभ्येत्य त्वमेव राजेति अन्ययोगव्यवच्छेदेन राज
भावमारोपयतीति लोकप्रसिद्धिर्द्रष्टव्या ।। उत्कर्षसमः- ( जातिः) [क] दृष्टान्तधर्म साध्येन समासजन्नुत्कर्ष
समः । यदि क्रियाहेतुगुणयोगालोष्टवक्रियावानात्मा लोष्टवदेव स्पर्शवानपि प्राप्नोति । अथ न स्पर्शवान् लोष्टवक्रियावानपि न प्राप्नोति । विपर्यये वा विशेषो वक्तव्य इति ( वात्स्या० ५।१।४ )। [ख] व्याप्तिमपुरस्कृत्य पक्षदृष्टान्तान्यतरस्मिन्साध्यसाधनान्यतरेणाविद्यमानधर्मप्रसञ्जनम् । यथा शब्दः अनित्यः कृतकत्वादिति स्थापनायामनित्यत्वं कृतकत्वं घटे रूपसहचरितम् । अतः शब्दोपि रूपवान्स्यात् । तथा च विवक्षितविपरीतसाधनाद्विशेषविरुद्धो हेतुः। विरुद्धदेशनाभासोयमिति बोध्यम् ( गौ० वृ० ५।११४ )।[ग] परोक्तसाधनादेव तदव्यापकधर्मस्य पक्ष आपादनम् । यथा शब्दः अनित्यः कृतकत्वाद्बटवदित्यादौ कश्चिदेवमाह यदि कृतकत्वेन हेतुना शब्दो घटवदनित्यः स्यात्तर्हि तेनैव
हेतुना शब्दो घटवत्सावयवः स्यात् इति ( नील पृ० ४३ )। उत्क्षेपणत्वम्-उत्क्षेपणत्वं नामोर्ध्वदेशसंयोगासमवायिकारणसमवेतकर्म- त्वापरजातिः ( सर्व० सं० पृ० २२० औलु० ) । अथ वा ऊर्ध्वदेश__ संयोगजनकक्रियानुकूलक्रियात्वम् ( त० व० )। उत्क्षेपणम्- (कर्म) [क] ऊर्ध्वदेशसंयोगहेतुः कर्म ( त० सं०)
( त० कौ० पृ० २०) (त० व० पृ० २४० ) । यथा हस्तेन मुसलमुत्क्षिपतीत्यादावुत्क्षेपणम् । आत्मनः संयोगप्रयत्नाभ्यां प्रथमतो हस्तकर्म भवति । तत्र हस्तः समवायिकारणम् । प्रयत्नवदात्मसंयोगोसमवायिकारणम् । प्रयत्नश्च निमित्तकारणम् (त० व० परि० १६ पृ० २४१ )। ततो मुसलोरक्षेपणे मुसलं समवायिकारणम् । प्रयत्न
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org