________________
न्यायकोशः। समवायस्य अयं शब्दाभाववान् इति शब्दाभावस्य च ग्रहः । तत्र श्रोत्रेन्द्रिये शब्दसमवायस्य शब्दाभावस्य च विशेषणत्वादिति भावः ( न्या० म० १ पृ० ८) ( त० कौ० १ पृ० ९)। अभावस्य स्वोपरक्तबुद्धिजनकत्वं यत्स्वरूपं तदेव विशेषणत्वम् न तु तदर्थान्तरम् इति विज्ञेयम् ( त० भा० पृ० २० ) । इन्द्रियसंबद्धविशेषणतया तु इदं कपालं घटसमवायवत् इति घटादिसमवायस्य इदं भूतलं घटाभाववत् इति घटाभावस्य च ग्रहः ( त० कौ० १ पृ० ९) (न्या० म० पृ० ८ )। तत्र चक्षुरादिसंयुक्ते कपाले घटसमवायस्य चक्षुरादिसंबद्धे भूतले घटाभावस्य च विशेषणत्वादिति भावः (न्या० म० १ पृ०८) (त० कौ० १ पृ० ९) । अत्र इन्द्रियसंनिकर्षस्य संयोगादेर्बहुविधस्य प्रवेशात्तादृशविशेषणतापि बहुविधा । तद्यथा इन्द्रियसंयुक्तविशेषणता इन्द्रियसंयुक्तसमवेतविशेषणता इन्द्रियसंयुक्तसमवेतसमवेतविशेषणता इन्द्रियसमवेतविशेषणता इन्द्रियसमवेतसमवेतविशेषणता इन्द्रियविशेषणविशेषणतेत्यादिः । तत्र आद्यया इन्द्रियसंयुक्तविशेषणतया भूतले घटाभावग्रहः । द्वितीयया घटरूपादौ रसत्वाभावग्रहः । तृतीयया रूपत्वादी रसत्वाभावग्रहः । चतुर्थ्या श्रोत्रसमवेते ककारे खत्वाभावग्रहः । पञ्चम्या कत्वे खत्वाभावग्रहः । षष्ठया श्रोत्र विशेषणीभूतककाराभावे खत्वाभावग्रहः इति बोध्यम् । (म० प्र० १ पृ० १०-११)। एवं विशेष्यतापि द्विविधा। इन्द्रियविशेष्यता इन्द्रियसंबद्धविशेष्यता च । तत्रेन्द्रियविशेष्यतया इह शब्दसमवायोस्ति इति शब्दसमवायस्य इह शब्दो नास्ति इति शब्दाभावस्य च ग्रहः । तत्र श्रोत्रेन्द्रिये शब्दसमवायस्य शब्दाभावस्य च विशेष्यत्वादिति भावः । इन्द्रियसंबद्ध विशेष्यतया तु इह कपाले घटसमवायोस्ति इति घटादिसमवायस्य इह भूतले घटो नास्ति इति घटाभावस्य च ग्रहो भवतीति । तत्र चक्षुरादिसंयुक्ते कपाले घटसमवायस्य तादृशे चक्षुरादिसंयुक्ते च भूतले घटाभावस्य च विशेष्यत्वादित्यवधेयम् । तत्र षड्विधसंनिकर्षमध्ये विशेषणविशेष्यभावो न विषयतारूपः । अपि तु स्वरूपसंबन्धावच्छिन्नाधाराधेयभाव एवेति विज्ञेयम् ( नील १ १९ न्या० को
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org