________________
न्यायकोशः। इह भूतले घटो नास्ति इति अभावप्रत्यक्षे च विशेषणविशेष्यभावः ( विशेषणता विशेष्यता च ) इति (त० सं० ) (त० भा०पृ०६-८) (सि० च० पृ० २२)। तथाहि । यदा चक्षुःसंयुक्त भूतले घटाद्यभावो गृह्यते इह भूतले घटो नास्ति इति तदा चक्षुःसंयुक्तस्य भूतलस्य घटाद्यभावो विशेष्यम् । भूतलं विशेषणम् । अत्र चक्षुःसंयुक्तविशेष्यत्वं संनिकर्षः । यदा मनःसंयुक्त आत्मनि सुखाद्यभावो गृह्यते अहं सुखादिरहितः इति तदा मनःसंयुक्तस्यात्मनः सुखाद्यभावो विशेषणम् । अत्र मनःसंयुक्तविशेषणत्वं संनिकर्षः । यदा च श्रोत्रसमवेते गकारे घत्वाभावो गृह्यते गकारो घत्वाभाववान् इति तदा श्रोत्रसमवेतस्य गकारस्य घत्वाभावो विशेषणम् । अत्र श्रोत्रसमवेतविशेषणत्वं संनिकर्षो ज्ञेयः । तदेवं संक्षेपतः पञ्चविधान्यतमसंबन्धसंबद्धविशेषणविशेष्यभावलक्षणेनेन्द्रियार्थसंनिकर्षेणाभाव इन्द्रियेण गृह्यते । एवं समवायोपि चक्षुःसंबद्धस्य तन्तोर्विशेषणभूतः पटसमवायो गृह्यते इह तन्तुषु पटसमवायः इति (त० भा० १ पृ० ८ )। तत्र विशेषणता नानाविधा। तथाहि भूतलादौ घटाभावः संयुक्तविशेषणतया गृह्यते । संख्यादौ रूपाद्यभावः संयुक्तसमवेतविशेषणतया गृह्यते । संख्यात्वादौ रूपाद्यभावः संयुक्तसमवेतसमवेतविशेषणतया गृह्यते । शब्दाभावः केवलश्रोत्रावच्छिन्नविशेषणतया गृह्यते । कादौ खत्वाद्यभावः श्रोत्रावच्छिन्नसमवेतविशेषणतया गृह्यते । एवं कत्वाद्यवच्छिन्नाभावे खत्वाभावादिकं श्रोत्रावच्छिन्नविशेषणविशेषणतया गृह्यते । घटाभावादी घटाभावश्चक्षुःसंयुक्तविशेषणविशेषणतया गृह्यते इति । एवमन्यत्राप्यूह्यम् (मु० १ पृ० १२२ )। एवं विशेष्यताया नानाविधत्वम् पूर्वोक्तं तदुदाहरणादिकं च द्रष्टव्यम् । अत्र समवायस्य प्रत्यक्षवर्णनं न्यायमतेन । वैशेषिकमते तु समवायोतीन्द्रिय एवेति ज्ञेयम् (त० कौ० १ पृ० ९) (मु० १ पृ० १२२)। अत्रेदं बोध्यम् । विशेषणतया विशेष्यतया च समवायाभावयोर्ग्रह इत्युक्तम् । तत्र विशेषणता द्विविधा । इन्द्रियविशेषणता इन्द्रियसंबद्धविशेषगता च । तत्रेन्द्रियविशेषणतया अयं शब्दसमवायवान् इति शब्द
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org