________________
न्यायकोशः ।
संयुक्तसमवायः संयुक्तसमवेतसमवायः समवायः समवेतसमवायः विशेषणविशेष्यभावश्चेति । तत्र चक्षुषा इह घटोस्ति इति घटयम् इति वा घटप्रत्यक्षजनने संयोगः संनिकर्ष उपयुज्यते । द्रव्य चाक्षुषस्पार्शनमानसेष्विन्द्रियसंयोग एव संनिकर्षः (न्या० म० १ पृ० ७ ) ( सि० च० १ पृ० २२ ) । चक्षुरादेर्घटादिना संयोगसत्त्वादिति भावः । एवं मनसा संयोगेनात्मग्रहः अहमस्मि इति ( त ० कौ० १ पृ० ८ ) । अत्रायं नियमः । आत्मा मनसा संयुज्यते । मन इन्द्रियेण । इन्द्रियमर्थेन ( विषयेण ) । ततः संनिकृष्टेनेन्द्रियेण निर्विकल्पक प्रत्यक्षमुत्पद्यते ( त० भा० पृ० ६ ) ( प्र० प्र० ) । घटे रूपादिकमस्ति इति घटरूपादिप्रत्यक्षजनने संयुक्तसमवायः । द्रव्यसमवेतचाक्षुषरासनघ्राणज स्पार्शनमानसेष्विन्द्रियसंयुक्तसमवाय एव संनिकर्षः ( सि० च० १ पृ०२२ ) । चक्षुरादिसंयुक्ते घटे रूपादीनां समवायादिति भावः ( त० कौ० १ पृ० ९ ) । शब्देतरगुणाः कर्म द्रव्यगता जातिः संयुक्तसमवायेन गृह्यते ( न्या० म० १ पृ० ७ ) | घटगतरूपे रूपत्वाद्यस्ति इति रूपत्वादिसामान्यप्रत्यक्षे संयुक्तसमवेतसमवायः । शब्देतरगुणगता कर्मगता च जातिरित्यर्थः ( न्या० म० १ पृ० ७ ) । अत्रायं नियमः येनेन्द्रियेण यद्गृह्यते तेनेन्द्रियेण तद्वतं सामान्यम् तत्समवायः तदभावश्च गृह्यते इत्यनुसंधेयः (त० कौ० १ पृ० १० ) : द्रव्यसमवेतसमवेतस्य चाक्षुषरासनप्राण जस्पार्शनमानसेष्विन्द्रियसंयुक्तसमवेतसमवाय एव संनिकर्षः । चक्षुरादिसंयुक्ते घटे समवेतं रूपादि । तत्र रूपत्वादेः समवायादिति भाव: ( सि० च० १ पृ० २२ ) । श्रोत्रेण कर्णे ध्वनिः पतति इति इह वीणाशब्दस्ति इति वा शब्दसाक्षात्कारे समवायः । कर्णशष्कुल्यवच्छिन्नं नभः श्रोत्रम् । तत्र ध्वनिशब्दस्य समवायस्य सत्त्वादिति भावः ( न्या० म० १ पृ० ८ ) ( प्र० प्र० पृ० ४ ) ( त० कौ० १ पृ० ९ ) । इह शब्दे शब्दत्व गुणत्वादिकमस्ति इत्येवं श्रोत्रेण शब्दत्वादिसामान्यप्रत्यक्षे समवेतसमवायः । अत्र श्रोत्रसमवेते शब्दे शब्द - त्वादेः समवायादिति भावः ( त० कौ० १ पृ० ९ ) । समवाय प्रत्यक्षे
Jain Education International
For Personal & Private Use Only
१४३
www.jainelibrary.org