________________
न्यायकोशः ।
रसरूपस्पर्शशब्दाः इति ( गौ० १ ११४ ) । एवं चेन्द्रियाणि षट् ( प्र० प्र० पृ० ११ ) ( गौ० वृ० ११ ११२ ) ( त० भा० पृ० २६) । केचित्तु इन्द्रियाणि दश ज्ञानेन्द्रियाणि कर्मेन्द्रियाणि च । तत्र ज्ञानेन्द्रियाणि प्राणादीनि । कर्मेन्द्रियाणि तु वाक्पाणिपादपायूपस्थानि इत्याहुः ( वा० ) । ज्ञानेन्द्रियार्थाः शब्दाद्याः स्मृताः कर्मेन्द्रियाण्यपि । वाक्पाणिपादपाबन्धुसंज्ञान्याहुर्मनीषिणः || वचनादानगतयो विसर्गानन्दसंयुताः । कर्मेन्द्रियार्थाः संप्रोक्ताः इति ( शा० ति० ) । अन्धु लिङ्गम् ( राघवभट्टः ) । हस्तौ पादावुपस्थं च जिह्वा पायुस्तथैव च । कर्मेन्द्रियाणि पश्चैव इति ( शङ्ख० ) ( वाच० ) । तत्र ज्ञानेन्द्रियाणां मध्ये घ्राणरसनश्रोत्राणि न द्रव्यग्राहकाणि । अपि तु गुणमात्रग्राहकाणि । चक्षुस्त्वमनांसि तु द्रव्यग्राहकाणि गुणग्राहकाण्यपि (प्र० प्र० पृ०१२ ) ( त० कौ० १ पृ० १० ) । अत्र केचित्तु मनो नेन्द्रियम् इत्याहुः । वैशेषिकैः साधितं मनस इन्द्रियत्वं नैयायिका अप्यभ्युपगच्छन्ति ( प्र० प्र० पृ० २१ ) ( त० भा० पृ० ४२-४३ ) । तच्च शरीरसंयोगे सत्येव साक्षात्प्रमितिसाधनम् इति ( ता० २० लो० २८ ) । इन्द्रियार्थसंनिकर्षः — प्रत्यक्षात्मकज्ञानहेतुरिन्द्रियस्य विषयेण संबन्धः
1
१४२
( राम ० १ पृ० १२८ ) । अत्रेदमवधेयम् । यदा इदं किंचिदिति निर्विकल्पकं ज्ञानं जायते तदा तस्य ज्ञानस्येन्द्रियं करणम् । इन्द्रियार्थ - संनिकर्षोवान्तरव्यापारः । निर्विकल्पकज्ञानं फलम् । यदा निर्विकल्पकज्ञानानन्तरं सविकल्पकं ज्ञानमुत्पद्यते तदेन्द्रियार्थसंनिकर्षः करणम् । निर्विकल्प कज्ञानमत्रान्तरव्यापारः । सविकल्पकज्ञानं फलम् इति (त० भा० पृ० ६ ) । विस्तरस्तु अन्यत्र (वै० उ० ८।१।४ - २ ) अनुसंधेयः । स चेन्द्रियार्थसंनिकर्षो द्विविधः । लौकिकः अलौकिकश्च । तत्र लौकिको लौकिकप्रत्यक्ष कारणम् (त० कौ० पृ० ८ ) षडिन्द्रिय सहकारी इति । ( प्र० प्र० पृ० ३ ) ( न्या० म० १ ० ७ ) । वक्ष्यमाणमलौकिकसंनिकर्षत्रयं तु षडिन्द्रिय सहकारीति संप्रदाय विदः । मनस एव सहकारीति शूलपाणिमिश्राः (त० कौ० १ पृ ९ ) । तत्र लौकिकः षड्विधः संयोगः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org