________________
न्यायकोशः।
१४१ फलम् परशोरिव छिदा इति ( त० भा० पृ० ६) । इन्द्रियसत्त्वे प्रमाणं चानुमानम् । तञ्च ज्ञानक्रिया सकरणिका क्रियात्वाच्छिदिक्रियावत् इति (वाच०)। लक्षणं चेन्द्रियत्वमेव । तच्च स्मृत्यजनकज्ञानजनकमनःसंयोगाश्रयत्वम् (चि० ) ( प० मा० ) ( वै० उ० ४।२।१ ) । अथवा शब्देतरोद्भूतविशेषगुणानाश्रयत्वे सति ज्ञानकारणमनःसंयोगाश्रयत्वम् (त० प्र० १ ) ( वाक्य० पृ० ३ ) ( त० दी० १ पृ० ७) (वै० उ० ४।२।१ ) ( वै० वि० ४।२।१ ) । तदर्थश्च शब्दादितरे ये उद्भूता विशेषसंज्ञकाश्च गुणास्तेषामनाश्रयत्वे सति ज्ञानस्य कारणीभूतो यो मनःसंयोगः इन्द्रियैर्मनसः संयोगः तदाश्रयत्वम् । आत्मव्यावृत्त्यर्थ सत्यन्तदलम् । शब्दभिन्न उद्भूतो विशेषसंज्ञकश्च गुणो न कोपि कस्मिंश्चिदपीन्द्रिये तिष्ठति । अनुद्भूतविशेषगुणस्तु अनुद्भूतरूपादिः वर्तत एवेति । नक्तंचरनयनरश्मिस्तु ( व्याघ्रादिनयनरश्मिः ) तेजोन्तरमेव । तस्य चक्षुष्वे तु शब्दरूपैतदितरोद्भूतविशेषगुणानाश्रयत्वे सति इति विशेषणं देयम् (वै० उ० ४।२।१) । उद्भूतत्वं चानुद्भूतत्वाभावकूटरूपम् । अनुद्भूतत्वं च शुक्लत्वादिव्याप्यं नानव (मु० १ पृ० ११९)। अथवा ज्ञानासमानाधिकरणो ज्ञानकारणीभूतो यो मनःसंयोगस्तदाश्रयत्वम् । चक्षुरादिमनःसंयोगमादायैव लक्षणसमन्वयः ( म० प्र० १ पृ० १३)। घ्राणाद्यन्यान्यत्वं वा । प्रत्यक्षजनकतावच्छेदकतयेन्द्रियत्वमखण्डोपाधिरित्यन्ये (गौ० वृ० १।१।१२ )। सांख्यास्तु इन्द्रियत्वं सात्त्विकाहंकारोपादानत्वम् (न्या० म० १ पृ० ७ ) · अहंकारकार्यत्वे सति कारणत्वं वेत्याहुः (वाच० )। [ग] साक्षात्कारमात्रवृत्तिधर्मावच्छिन्नकार्यतानिरूपितकारणताश्रयव्यापारवदतीन्द्रियम् ( प० च० )। इन्द्रियं द्विविधम् । अन्तरिन्द्रियं बहिरिन्द्रियं च । तत्राद्यं मनः । द्वितीयं घ्राणादि । पञ्चविधम् घ्राणम् रसनम् चक्षुः श्रोत्रम् त्वक् चेति । तदुक्तम् घाणरसनचक्षुस्त्वक्त्रोत्राणीन्द्रियाणि भूतेभ्यः (गौ० १।१।१२) इति । अत्र भोगसाधनानीन्द्रियाणि (वात्स्या० १।१।९) इति भाष्यकार आह । इन्द्रियविषयास्तु गन्ध
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org