________________
૪૦
न्यायकोशः ।
भिरुपकारं संपाद्य पाकेनौदनं भावयेत् ( संपादयेत्) इति भाव्याद्यन्वयेन वाक्यार्थः संपद्यते ( लौ० भा० टी० पृ० १० ) । इतिहासः - पुरावृत्त प्रकाशको ग्रन्थविशेषः । यथा महाभारतादिः (वाच० ) । तत्रान्नायते वाको वाक्येतिहासपुराणः पञ्चमो वेदानां वेद: ( छान्दो० ) । स्वाध्यायं श्रावयेपित्र्ये धर्मशास्त्राणि चैव हि । आख्यानानीतिहासांच पुराणानि खिलानि च । ( मनु० ३।२३२ ) इति । इतिहासलक्षणं च धर्मार्थकाममोक्षाणामुपदेशसमन्वितम् । पूर्ववृत्तक्थायुक्तमितिहासं प्रचक्षते || इति ( वाच० ) ।
इदम् - प्रत्यक्ष बुद्धिविषय: ( दि० ४ पृ० १७९ ) ( ग० शक्ति० ) । यथा अयम् उदयति विततोर्ध्वरश्मिजाल: ( माघ ० ) इदं किलाव्याजमनोहरं वपुः ( शाकु० ) इत्यादाविदपदार्थः । इदमर्थश्च लौकिकप्रत्यक्षविषयता विशिष्टम् (ग० शक्ति० टी० पृ० ११६ ) । चक्षुः संनिकृष्टे व्यक्तिविशेषे अयं घटः इति प्रत्यक्षे घटस्येदमर्थता | अत्रेदं बोध्यम् । इदमः संनिकृष्टवाचित्वम् । तत्रोक्तम् अस्येति प्रत्यक्षादिसंनिधापितस्य जगत इदमा निर्देश: ( शारी० भा० ) इति । संनिकृष्टत्वं च बुद्धिमात्रेणापि । तच्च ज्ञानलक्षणया प्रत्यासत्त्या स्मरणादिना च भवति । यथा कौमुदीयं विरच्यते इत्यत्र भाविन्यपि कौमुदी बुद्ध्या संनिधापितत्वेन इदमा निर्दिश्यते ( वा० ) ।
1
इन्द्रियम् – [क] स्वविषयग्रहणलक्षणानीन्द्रियाणि ( वात्स्या ० १ । १ । १२ ) । [ख] शरीरसंयुक्तं ज्ञानकरणमतीन्द्रियम् ( त० कौ० पृ० ३ ) ( प्र० प्र० पृ० ११ ) । तच्च प्रत्यक्षप्रमाणमित्युच्यते ( त० कौ० पृ० ८ ) ( त० सं० ) । अयमाशयः । यदा निर्विकल्पकरूपा प्रमा फलं तदा इन्द्रियं करणम् । तद्यथा आत्मा मनसा संयुज्यते । मन इन्द्रियेण । इन्द्रियमर्थेन । इन्द्रियाणां स्वसंबद्धवस्तुप्रकाशकारित्वम् इति नियमात् । ततोर्थ संनिकृष्टेनेन्द्रियेण निर्विकल्पकज्ञानं जन्यते तस्य ज्ञानस्येन्द्रियं करणम् छिदाया इव परशुः । इन्द्रियार्थसंनिकर्षोवान्तरव्यापारः छिदाकरणस्य परशोरिव दारुसंयोगः । निर्विकल्पकं ज्ञानं
1
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org