________________
न्यायकोशः।
१३९ ध्यम्। १० विवक्षानियमः । ११ मतम् । १२ प्रत्यक्षम् । १३ अवधारणम् । १४ व्यवस्था । १५ परामर्शः । १६ मानम् । १७ इत्थमर्थः । १८ प्रकर्षः । १९ उपक्रमः । तत्र हेतौ उदाहरणम् इतीव धारामवधीर्य (नैष०) इति स्म सा कास्वरेण लेखितम् (नैष०)। प्रकाशार्थे यथा इतिहरि । प्रकारे यथा इति मदमदनाभ्यां रागिणः स्पष्टरागाः (माघ०) । प्रकरणे यथा इतिकृत्यम् इतिकर्तव्यम् इतिवृत्तम् । इदमर्थे 'यथा विरोधिसिद्धमिति कर्तुमुद्यतम् इत्यादि ( वाच०)। अत्रायं विशेषो ज्ञेयः । स्वरूपार्थद्योतकता त्रिधा। शब्दस्वरूपद्योतकता प्रातिपदिकार्थद्योतकता वाक्यार्थद्योतकता चेति । तत्र शब्दस्वरूपद्योतकत्वे तद्योगे न प्रथमा । यथा कृष्णेति मङ्गलं नाम यस्य वाचि प्रवर्तते इत्यादौ । प्रातिपदिकार्थद्योतकत्वे तु प्रथमा भवति । यथा चयस्त्विषामित्यवधारितं पुरस्ततः शरीरीति विभाविताकृतिम्। विभुर्विभक्तावयवं पुमानिति क्रमादमुं नारद इत्यबोधि सः ॥ ( माघः १ ) इत्यादौ । वाक्यार्थद्योतकत्वे च न प्रथमा । यथा ,अत एव गवित्याह भू सत्तायामितीदृशम् । न प्रातिपदिकं नापि पदं साधु तु तत्स्मृतम् ॥ (वैया० सि० का० २७)। श्रुतार्थस्य परित्यागादश्रुतार्थस्य कल्पनात् । प्राप्तस्य बाधा
दित्येवं परिसंख्या त्रिदोषिका ॥ (मीमांसा० का० ) इत्यादौ (वाच०)। इतिकर्तव्यता-इत्थंकर्तव्यता क्रमयुक्तकर्तव्यतेत्यर्थः । एवं सर्व विधायेदमितिकर्तव्यमात्मनः । युक्तश्चैवाप्रमत्तश्च परिरक्षेदिमाः प्रजाः ॥ ( मनु० ७।१४२ ) इत्यादावितिकर्तव्यता । अत्र कर्तव्यस्य इति प्रकारः इतिकर्तव्यता इति व्युत्पत्तिद्रष्टव्या । तदर्थश्च कर्तव्यसामान्यस्य भेदकः कर्तव्यविशेषः । यथा मीमांसकमते प्राशस्त्यं शब्दभावनायामितिकर्तव्यतात्वेनान्वयं लभत इति ( लौ० भा० टी० पृ० ८ )। यथा वा तेषामेष मते स्वर्गकामो यजेतेत्यादौ लिङाख्यातबोध्याया अर्थभावनाया
अपेक्ष्या प्रयाजाद्यङ्गजातात्मिका इतिकर्तव्यता भवति (लौ० भा० पृ० - १० ) । यथा वा ओदनकामः पचेदित्यत्र लिङा भावनाभिधीयते ।
तत्र किं भावयेत् कथं भावयेत् इदि भाव्याद्याकाङ्क्षायां तृणफूत्कारादि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org