________________
१३८
न्यायकोशः। इज्या-देवतापूजनम् ( सर्वदुः पृ० ११७ रामानु० )। इतरबाधग्रहः-साध्यतावच्छेदकव्याप्ययत्किचिद्धर्मावच्छिन्नेतरसाध्यताव
च्छेदकविशिष्टाभाववत्पक्षविषयकं ज्ञानम् । यथा पर्वतो वह्निमानित्यादौ महानसीयेतरवह्नयभाववान्पर्वतः इति ज्ञानम् । तथा हि। साध्यतावच्छेदकमत्र वह्नित्वम् । तद्व्याप्यो यत्किंचिद्धर्मः महानसीयत्वम् । तदवच्छिन्नः महानसीयवह्निः । तस्मादितरः ( भिन्नः ) यः साध्यतावच्छेदकविशिष्टः चत्वरीयादिर्वह्निः । तदभाववान् पक्षः पर्वतः । तद्विषयकं ज्ञानम् इति । अस्य प्रयोजनं हि यथा पर्वतो वह्निमान इत्यादिस्थले वह्निव्याप्यधूमवान् पर्वतः इति परामर्शादपि महानसीयवह्निभिन्नवह्नयभाववान् इतीतरबाधग्रहबलात् महानसीयवह्नित्वादिनानुमितिः पर्वतो महानसीयवह्निमान् इति जायत इति ( त० प्र० ख० ४)। .. इतरबाधग्रहसहकृतानुमितिः- ( अनुमितिः) सामान्यधर्मावच्छिन्नस्य.
साध्यत्वे विशेषधर्मावच्छिन्नेतरबाधग्रहसत्त्वे जायमाना विशेषधर्मावच्छिन्नविधेयकानुमितिः। यथा पर्वते धूमेन शुद्धवह्नित्वावच्छिन्नस्य साधने पर्वतो वह्निमानित्यादौ पर्वतो महानसीयवह्निमान् इत्यनुमितिः । अत्र च तादृशबाधग्रहकाले सामान्यधर्मावच्छिन्नव्याप्यवत्तापरामर्शादपि विशेष
धर्मावच्छिन्न विधेयकानुमितिः स्वीक्रियत इति नैयायिकसिद्धान्तो ज्ञेयः। इतरेतरः-(द्वंद्वसमासः ) एकवचनान्यसुबाकाङ्कः समासः । यथा धव
खदिरो छिन्धीत्यादावितरेतरद्वंद्वः । अत्र हि धवखदिरावगतौ द्विवचनादिः प्रमाणम् ( श० प्र० पृ० ६६ ) । अत्रेदं बोध्यम् । धवखदिराविति स्वरूपद्वयप्रतीतेन लक्षणा शक्तिर्वेति नैयायिकसिद्धान्तः । मीमांसकाश्च धवखदिरावित्यादावुत्तरपदे धवखदिरादिसाहित्याश्रये लक्षणामाहुः । वैयाकरणास्तु तादृशसाहित्याश्रये शक्तिमाहुः (न्या० म०४ पृ०१३)।
शाब्दिकाश्च मिलितानामन्वय इतरेतरः इति वदन्ति । इतरेतरत्-अन्योन्यशब्दवदस्यार्थीनुसंधेयः (ल० म० )। इति—(अव्ययम् ) १ हेतुः । २ प्रकाशनम् । ३ निदर्शनम् । ४ प्रकारः। . ५ अनुकर्षः। ६ समाप्तिः। ७ प्रकरणम् । ८ स्वरूपम् । ९ सांनि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org