________________
१३७
न्यायकोशः। भिन्नत्वे सति संबन्धानवच्छिन्नप्रकारताकत्वम् (ल० व० पृ० ३५ )। अत्रेदमुक्तम् । आत्मजन्या भवेदिच्छा इच्छाजन्या भवेत्कृतिः। कृतिजन्या भवेञ्चेष्टा चेष्टाजन्या भवेत्क्रिया।। इति । इच्छा चात्मधर्म इति नैयायिकसिद्धान्तः । कामः संकल्पो विचिकित्सा श्रद्धाश्रद्धा धृतिरधृतिहीं(6रित्येतत्सर्वं मन एव इति श्रुतेः स मनोधर्म इति सांख्या मायावादिनश्वाहुः । श्रुतौ कामपदेनेच्छोच्यते । इच्छा द्विविधा । फलविषयिणी तदुपायविषयिणी चेति । अत्र मुख्यं फलं सुखं दुःखाभावश्च । तत्र फलेच्छां प्रति फलज्ञानमात्रं कारणम् । अत एव फलस्य स्वतः पुरुषार्थत्वं संभवति इति बोध्यम् ( भा० ५० श्लो० १४७ ) (मु० गु० पृ० २२०-२२१ ) (त० कौ० पृ. १८)। अत्रेदं रहस्यम् । सुखस्यैव चरमफलत्वेन सुखाद्यात्मकफलानन्तरं फलान्तराभावात् सुखेच्छाया नेष्टसाधनत्वज्ञानापेक्षा । अपि तु सुखज्ञानेनैव सुखेच्छोत्पद्यते इति । उपायेच्छां प्रति त्विष्टसाधनताज्ञानं कारणम् ( भा० ५० श्लो० १४७) (मु० गु० पृ० २२१) (त० कौ० पृ० १८ ) । यथा स्वर्गात्मकफलस्य उपायो यागः । तद्विषयकेच्छां प्रति यागो मम इष्टस्य स्वर्गात्मकफलस्य साधनम् इति ज्ञानं कारणम् । इच्छां प्रति बलवदनिष्टाननुबन्धित्वज्ञानमपि कारणं भवति । पुनरपि नित्यानित्यभेदेनेच्छा द्विविधा । तत्र जीवेच्छा अनित्या। ईश्वरेच्छा तु नित्या सर्वं जगद्भूयात् इति समूहालम्बनामिका चेति । मायावादिनस्तु व्योमादिवत्सा अनित्येत्याहुः ( वाच०)। [ख] स्वार्थ परार्थं वा अप्राप्तप्रार्थना । सा चात्ममनसोः संयोगात्सुखाद्यपेक्षात्स्मृत्यपेक्षाद्वोत्पद्यते । प्रयत्नस्मृतिधर्माधर्महेतुः । कामः अभिलाषः रागः संकल्पः कारुण्यम् वैराग्यम् उपधा भावः इत्येवमादय इच्छाभेदाः । मैथुनेच्छा कामः । अभ्यवहरणेच्छा अभिलाषः । पुनः पुनर्विषयानुरञ्जनेच्छा रागः । अनासन्नक्रियेच्छा संकल्पः । स्वार्थमनपेक्ष्य परदुःखप्रहाणेच्छा कारुण्यम् । दोषदर्शनाद्विषयत्यागेच्छा वैराग्यम् । परवञ्चनेच्छा उपधा । अन्तर्निगूढेच्छा भावः । चिकीर्षाजिहीत्यादिक्रियाभेदादिच्छाभेदा भवन्ति (प्रशस्त० २ पृ० ३३ )। १० न्या० को
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org