________________
न्यायकोशः। । गगनकमलं सुरभि कमलत्वादित्यत्र कमले पक्षे गगनीयत्वाभावः - ( न्या० म० २ पृ० २१ )। यथा वा काञ्चनमयः पर्वतो वह्निमा- नित्यादौ पर्वते काश्चनमयत्वस्याभावः (मु० २ पृ० १६१ ) ( गौ० १वृ० ११२।७ )। अत्र पर्वतो न काश्चनमयः इति ज्ञाने विद्यमाने - काञ्चनमये पर्वते वह्निव्याप्यधूमवान्काश्चनमयपर्वतः इति परामर्शप्रति
बन्धः फलम् । यथा वा अनित्यगगनं रूपवदित्यादौ गगनादेरनित्यत्वादिकम् आश्रयासिद्धिः ( दीधि० २ पृ० २१७)।.. आसत्तिः-१ [क ] एकेनैव पुंसा पदानाम् अविलम्बेनोच्चारितत्वम्
(त० भा० ४ पृ० १८)। एतस्य ज्ञानं च शाब्दबोधस्य जनकमिति - विज्ञेयम् । अत एव एकैकशः प्रहरे प्रहरे असहोच्चारिते गामानयेत्यादौ - नान्वयबोधः । संनिधेरभावात् इति ( त० कौ० ४ पृ० १७ )
( त० सं० )। [ख] पदानामविलम्बेनोच्चारणम् (त० सं० )। - तदर्थश्च अविलम्बेन पदार्थोपस्थितिः ( त० दी० ४ पृ० ३२ )।
अथवा तत्पदे तत्पदाव्यवहितत्वम् । तथा च गोपदनिष्ठं अम्पदाव्यवहितत्वम् गोपदे अम्पदसंनिधिरित्यर्थः ( वाक्य० पृ० १९ )। यथा गामानय शुक्लां दण्डेनेति वाक्ये पदानामविलम्बेनोच्चारणात् संनिधिरूपा आसत्तिः ( त० कौ० ४ पृ० १७) ( भा० प० श्लो० ८४ ) । [ग] प्रकृतान्वयबोधानुकूलव्यवधानाभाव आसत्तिरिति प्राश्चः । अन्वयप्रतियोग्यनुयोग्यर्थोपस्थापकपदयोरव्यवधानमित्यर्थः । तेन गिरि(क्तमग्निमान् देवदत्तेनेत्यादौ नातिव्याप्तिः ( म० प्र० ४ पृ० ५७ ) । इदं लक्षणत्रयं ( क ख ग इत्यत्र विद्यमानम् ) प्राचीनमतमनुसृत्योक्तमिति बोध्यम् । नव्यास्तु नैतादृश्या आसत्ते
निं शाब्दबोधे कारणम् । किंतु अव्यवहितपदतात्पर्यमासत्तिः तज्ज्ञानं शाब्दबोधे कारणमित्याहुः (न्या० म० ४।२३-२४ ) ( म० प्र० ४ पृ० ५७ )। तत्तात्पर्य च एतत्पदं एतत्पदाव्यवहितोत्तरमभिसंदधातु इत्यभिसंधापयितुरिच्छा। अत एव मौनिश्लोकेप्यासत्तिः । वक्तुरभावेप्यनुसंधातुः सत्त्वात् । शुकवाक्ये च भगवत्तात्पर्य
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org