________________
न्यायकोशः।
१३३ आश्रयासिद्धः-(हेत्वाभासः) [क] यस्य हेतोराश्रयो नावगम्यते सः। [ख] यस्य हेतोः पक्षोप्रसिद्धः सः । स च आश्रयासिद्धः पक्षतावच्छेदकाभाववत्पक्षकः । यथा गगनारविन्दं सुरभ्यरविन्दत्वात्सरोजारविन्दवदित्यत्रारविन्दत्वमाश्रयासिद्धम् (त० सं०) (प्र० प्र०). ( त० कौ० २ पृ० १४ ) ( त० भा० पृ० ४५ )। आश्रयासिद्धशब्दार्थस्तु आश्रयस्य पक्षस्य असिद्धिः पक्षे पक्षतावच्छेदकस्याभावः तद्वान् इति । एतल्लक्षणं च वक्ष्यमाणाश्रयासिद्धिमत्त्वमेवेति बोध्यम् ( वाक्य० २ पृ० १७ )। अनन्तरोदाहरणे गगनारविन्दमाश्रयः स च नास्त्येव (त० भा० पृ० ४५)( त० सं० )। अत्र चारविन्दे पक्षे गगनीयत्वं पक्षतावच्छेदकं नास्तीत्यरविन्दत्वं हेतुराश्रयासिद्धः । आश्रयासिद्धस्य हेत्वाभासत्वं वित्थम् । आश्रयासिद्धत्वज्ञानं च परामर्शप्रतिबन्धकम् । अत्र आश्रयासिद्धत्वज्ञानस्य पक्षे पक्षतावच्छेदकवैशिष्ट्यावगाहिग्रहप्रतिबन्धकत्वेन परामर्शप्रतिबन्धकत्वमिति ज्ञेयम् । अरविन्दे गगनीयत्वं नास्ति इति ज्ञाने सुरभित्वव्याप्यारविन्दत्ववद्गगनारविन्दम् इति परामर्शासंभवात् । एतस्य परामर्शस्य अरविन्दे गगनीयत्वसंबन्धावगाहित्वात् इति ( त० कौ० २ पृ० १४ )। तथा च अरविन्दे गगनीयत्वाभावे निश्चिते. गगनीयत्वविशिष्टारविन्दे सौरभानुमितिप्रतिबन्धः फलम् ( न्या० बो० २ पृ० १८ ) । आश्रयासिद्धो द्विविधः असदाश्रयासिद्धः असाधकश्चेति । तत्राद्यो यथा गगनारविन्दं सुरभि अरविन्दत्वात् सरोजारविन्दवत् इति । द्वितीयो यथा ईश्वरवादिनं प्रति क्षित्यादिकं सकर्तृकम् कार्यत्वाद्भटवत् इति । अत्र साध्यस्य निश्चितत्वेन पक्षे साध्यसंदेहानुपपत्तौ संदिग्वसाध्यवतः पक्षस्याभावादाश्रयासिद्धि
र्बोध्या (प्र० च० पृ० ३१ )। आश्रयासिद्धिः-(हेतुदोषः ) ज्ञानस्य विषयतया विशिष्टपक्षग्रहविरोधिता
वच्छेदकं रूपम् ( दीधि० २ पृ० २१७ ) । तच्च रूपम् पक्षतावच्छेदकविशिष्टपक्षासिद्धिः । अथवा पक्षतावच्छेदकाभाववान् पक्षः । यद्वा पक्षे पक्षतावच्छेदकस्याभावः ( न्या० बो० २ पृ० १८) । यथा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org