________________
१३२
न्यायकोशः। आशंसनम् -आशीर्वादवदस्यार्थीनुसंधेयः । आशयः—आ फलविपाकाञ्चित्तभूमौ शेरत इत्याशयाः धर्माधर्मसंस्काराः
( सर्व० सं० पृ० ३६५ पातञ्ज० )। आशा-अनितिप्राप्येष्टार्थप्रार्थना ( काठ० ११८ भाष्यम् )। आशीः-[क] वक्त्रिच्छाविषयत्वम् । यथा घटमानय इत्यादौ लोडर्थः ।
अत्र घटकर्मकमदिच्छाविषयानयनानुकूलकृतिमांस्त्वम् इत्यर्थः (तर्का०४ पृ० १४ ) । यथा वा अयुराशास्तेयं यजमानोसौ . ( तैत्तिरीयब्राह्मणे ३।५।१०) इत्यादावाङ्पूर्वकशास्धात्वर्थः । [ख ] शाब्दिकास्तु हितविषयिका लोडाद्यन्तशब्दप्रयोक्त्रिच्छा यथा भवतु ते शिवप्रसाद इत्यादौ लोडर्थः इत्याहुः। अत्र हितविषयकमदिच्छाविषयो यस्त्वत्संबन्धिशिवप्रसादस्तत्कर्तृकं भवनम् इति बोधः (वै० सा० द० पृ० १२९)। [ग] इष्टार्थाविष्करणमिति कश्चिद्वक्ति । यथा यां वै काश्चन यज्ञ ऋत्विज आशिषमाशासते यजमानस्यैव सा ( शत० ब्रा० १।३।१।२६) इत्यादौ ( वाच०)। आशीर्लिङ—(लिङ्) य आशंसनस्य भावित्वस्य च बोधको लकारः स
आशीर्लिङित्युच्यते । यथा भूयात् भूयास्तामित्यादावाशीर्लिङ् । जीवतु भवानित्यादौ तु लोडादिकं आशंसनीयत्वस्य बोधकमपि न भावित्वस्य । जीविष्यतीत्यादौ भावित्वस्य बोधकोपि लुडादि शंसनीयत्वस्य बोधकः । अतो न तत्र लोट्लडादौ अतिप्रसङ्गः। आशीर्लिङ प्रत्ययस्तु प्रकृत्यर्थस्याशंसां भावित्वं चानुभावयतीति लक्षणसमन्वयो बोध्यः ( श० प्र०
पृ० १६२ )। आशौचम्-न शुचिः अशुचिः । तस्य भाव आशौचम् । आशौचशब्देन च कालविशेषस्नानाद्यपनोद्यः पिण्डोदकदानादिविधेरध्ययनादिपर्युदासस्य च निमित्तभूतः पुरुषगतः कश्चनातिशयः कथ्यते ( मिताक्षरा
अ० ३।१ )। आश्रयत्वम्-अधिकरणतावदस्यार्थीनुसंधेयः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org