________________
न्यायकोशः।
१२५ दिव्यतेजःसंयोगात्तु तत्र द्रवत्वप्रतिरोधः । काठिन्यप्रतीतिस्तु तत्र भ्रान्तिरेव । केचित्तु दिव्यतेजःसंयोगाजलपरमाणुभ्यां द्वथणुकम् । तैश्च त्रसरेण्वादिकं क्रमेण हिमादौ जायते । तादृशद्वयणुकादिकं च द्रवत्वरहितं कठिनमेवेति हिमादौ काठिन्यप्रतीतिर्न भ्रान्तिरित्याहुः ( वै०वि० २।१।२ )। तत्र करकाया उत्पत्तिकारणं तजन्यगुणाश्च भावप्रकाशे दर्शिताः । यथा दिव्यवाय्वनिसंयोगात्संहताः खात्पतन्ति याः । पाषाणखण्डवञ्चापस्ताः कारिक्योमृतोपमाः ॥ करकाजं जलं रूक्षं विशदं गुरु सुस्थिरम् । दारुणं शीतलं सान्द्रं पित्तहृत् कफवातकृत् ॥ इति (वाच०)। अप्सु चतुर्दश गुणा वर्तन्ते । अभास्वरं शुक्लरूपम् मधुरो रसः शीतः स्पर्शः संख्या परिमाणम् पृथक्त्वम् संयोगः विभागः परत्वम् अपरत्वम् गुरुत्वम् सांसिद्धिकं द्रवत्वम् स्नेहः वेगश्चेति । स्थितिस्थापकाख्यसंस्कारोपि जले वर्तत इति केचित् ( त• कौ० १ पृ० २ ) ( त० भा० पृ० २७ ) ( भा० ५० श्लो० ३१ )। अत्रामास्वरं च पराप्रकाशकम् (प० मा० ) । वियति विक्षेपे जले धवलिमोपलब्धेजले शुक्लरूपमेव (मु० १ पृ० ७५ )। यदि तु वियति विक्षिप्तजल उपलभ्यमानो धवलिमा तेजोगत एव तत्र भासत इत्युच्येत तदा घटगतरूपमपि तेजोगतमेव किं न स्यात् इति । कालिन्दीजलादौ नीलिमोपलब्धिस्त्वाश्रयौपाधिकी भ्रान्तिरेवेति (मु० १ पत्र० ७५ )। यद्यपि जले कोपि रसो नानुभूयते तथापि हरीतक्यादिकषायद्रव्यभक्षणानन्तरं जलमाधुर्यमनुभूयत एव । तस्य तद्व्यञ्जकत्वात् । न च जलसंयोगाद्धरीतक्यादावेष माधुर्योत्पत्तिरिति वाच्यम् । पात्रस्थहरीतक्यादावपि जलसंयोगेन मधुरिमोत्पत्त्यापत्तेः । हरीतक्यां चामलक्यामिव कषाय एव रसोनुभूयते । कर्कटीभक्षणानन्तरं जलस्य या तिक्ततोपलभ्यते सा कर्कट्या एव जलमन्तरेणापि तद्हात् । जम्बीररसादावम्लोपलब्धिः करवेल्ल ( करवीर- )रसादौ तिक्तत्वोपलब्धिश्चैतेन व्याख्याता । सूर्यकरादिसंयोगाज्जले य उष्णस्पर्शः प्रतीयते सोपि सूर्यकरादेरेव । स्नेहस्तु जल एव । घृतादावपि तदुपष्टम्भकजलस्यैव स्नेहः । स्नेहप्रकर्षाच्च
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org