________________
१२४
न्यायकोशः। आन्वीक्षिकी—प्रत्यक्षागमाश्रितमनुमानं सा अन्वीक्षा । प्रत्यक्षागमाभ्यामीक्षितस्यानु ईक्षणमन्वीक्षा । तया प्रवर्तत इत्यान्वीक्षिकी न्यायविद्या न्यायशास्त्रम् ( वात्स्या० १।१।१ )। यथा महर्षिगौतमप्रणीतं न्याय. दर्शनम् । श्रवणादनु पश्चात् ईक्षा अन्वीक्षा उन्नयनम् । तन्निर्वाहिकान्वीक्षिकी । उपनिषदर्थश्चान्वीक्षिक्यनुसारी ग्राह्यः (गौ० वृ० १।१।१ )। एतस्या विद्यायाः प्रमाणप्रयोजनादिकं तु न्यायशब्दव्याख्यानावसरे दृश्यम् । आपः—(द्रव्यम् ) [क] रूपरसस्पर्शवत्य आपो द्रवाः स्निग्धाः (वै०
२।१।२ )। [ख] अस्वसामान्ययुक्ताः ( त० भा० पृ० २७ ) (त० कौ० १ पृ० २ )। यथा आपः स्वभावतो मेध्याः किं पुनर्वह्नियोगत इत्यादौ । [ग] शीतस्पर्शवत्यः (वै० २।२।५ ) ( त० सं० )। तल्लक्षणं च अभास्वरशुक्लेतररूपासमानाधिकरणा नैमित्तिकद्रवत्ववदवृत्तिर्वा रूपवद्वृत्तिः द्रव्यत्वसाक्षाद्वयाप्या च या जातिः तद्वत्त्वम् इत्यादि (वै० उ० २।१।२ ) (मु० १ पृ० ०४ )। तादृशी जातिश्च जलत्वमेव । अथवा नीलासमानाधिकरणा भास्वरशुक्लासमानाधिकरणा रूपवद्वृत्तिव्यत्वसाक्षाद्वयाप्या च या जातिः तद्वत्त्वम् (वै० वि० २।१।२)। यद्वा शीतस्पर्शसमानाधिकरणा द्रव्यत्वापरा च या जातिः तद्वत्त्वम् ( त० दी० १ पृ० ८) । अप्त्वसामान्यं च सरित्सागरसमवेतत्वे सति ज्वलनासमवेतं सामान्यम् (सर्व०पृ० २१८ औल्लू०)। आपो द्विविधाः । नित्या अनित्याश्च । तत्र नित्याः परमाणुरूपाः । अनित्यास्तु कार्यरूपाः । अनित्यात्रिविधाः । शरीरम् इन्द्रियम् विषयश्च । तत्र शरीरमयोनिजं वरुणलोके प्रसिद्धम् । तस्य च शरीरस्य पार्थिवावयवोपष्टम्भेनोपभोगसमर्थत्वम् ( प्रशस्त० पृ० ४ ) । इन्द्रियम् रसग्राहकं रसनम् । तच्च जिह्वाप्रवर्ति । विषयः सरित्समुद्रादिर्हिमकरकादिश्च (तसं०) (भा०प० श्लो० ४१) (त०भा० पृ० २७) (त०कौ० १ पृ० २ )। अत्रेदं बोध्यम् । हिमकरकादीनां सांसिद्धिकं द्रवत्वमस्येव परंतु तेषामदृष्टविशेषेण घनीभावात्सासिद्धिकद्रवत्वप्रतिबन्धमानं कल्प्यत इति विज्ञेयम् (मु०) (सि० च०)।
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org