________________
न्यायकोशः। भिन्नाभिन्नः कथंचन । ज्ञानं पूर्वापरीभूतं सोयमात्मेति कीर्तितः ॥(सर्व० सं० पृ० ६९ आहेत०)। चैतन्यमात्मा ( सर्व० सं० पृ० १९६ प्रत्यमि०)। चैतन्यविशिष्टं देहमात्मेति लोकायता मन्यन्ते। इन्द्रियाण्यात्मेत्यन्ये । अन्तःकरणमात्मेत्यपरे । मुख्यः प्राण एवात्मेति चान्ये । पुत्र एवात्मेति केचित् । क्षणभङ्गुरं संतन्यमानं विज्ञानमात्मेति बौद्धाः । देहातिरिक्तो देहपरिणाम आत्मेति जैना जनाः प्रतिजानते। कर्तृत्वादिविशिष्टः परमेश्वराद्भिन्नो जीवात्मेति नैयायिकाः । द्रव्यबोधस्वभावमात्मेत्याचार्याः परिचक्षते । भोक्तैव केवलं. न कर्तेति सांख्याः संगिरन्ते । चिद्रूपः कर्तृत्वादिरहितः परस्मादभिन्नः प्रत्यगात्मेत्यौपनिषदाः ( सर्व० सं० पृ० ४१४ शांक० )। आत्माश्रयः-(तर्कः) [क] स्वस्य स्वापेक्षापादकः प्रसङ्गः ( जग० तर्क० )। यथा कार्यत्वावच्छिन्नकार्यतानिरूपितकारणत्वं साधारणकारणत्वमित्यादौ । अत्र एकं कार्यत्वमवच्छेदकम् । अपरं त्ववच्छेद्यम् । तथा चावच्छेदकज्ञानं विना अवच्छेद्यज्ञानं न भवति । अवच्छेद्यज्ञानं विनाप्यवच्छेदकज्ञानं च न भवति । परस्परसापेक्षत्वादित्यात्माश्रय इति बोध्यम् । [ख] स्वस्य स्वापेक्षितत्वे अनिष्टप्रसङ्गरूपो दोषः । स चोत्पत्तिस्थितिज्ञप्तिद्वारा त्रेधा । क्रमेण यथा यद्ययं घट एतद्धटजन्यः स्यात्तदैतद्घटानधिकरणक्षणोत्तरवर्ती न स्यात् । यद्ययं घट एतद्धटवृत्तिः स्यात् एतद्बटव्याप्यो न स्यात् । यद्ययं घट एतद्भुटज्ञानाभिन्नः स्यात् ज्ञानसामग्रीजन्यः स्यात् । एतद्भुटभिन्नः स्यादिति वा । एवं सर्वत्रापाद्यम् (गौ० वृ० १।१४४०.)। [ग] स्वज्ञाने स्वज्ञानापेक्षया आत्माश्रयः ( कृष्ण० )। आदानम्-यथेष्टविनियोगफलकः स्वीकारः । यथा विप्राद्धनमादत्ते इत्यादी
दाधात्वर्थः ( का० व्या० पृ० १० )। आदानसमितिः-आसनादीनि संवीक्ष्य प्रतिलङ्घय च यत्नतः । गृहीयानिक्षिपेद्ध्यायेत्सादानसमितिः स्मृता ।। (सर्व० सं० पृ०७९ आई०)। न्या० को. १६
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org