________________
न्यायकोशः। संबध्नाति इति व्युत्पत्त्या कर्तृसंबन्धे क्रियाफल एवात्मनेपदम् इति । तदनुसृत्यैव दानादिस्थले स्वगते फले ददे इत्येवम् परगते तु ददानि इत्येवं वाक्यं प्रयुञ्जते वृद्धाः। चिन्तामणिकृतस्तु ( गङ्गेशोपाध्यायाः) यत्र क्रियाफले कर्तुरभिप्राय इच्छा तत्रैवात्मनेपदम् इति । तेन याजकाचैदक्षिणादिलाभेच्छयैव यागादिकरणे यजन्ति याजकाः पठन्ति पाठकाः इति परस्मैपदम् । परगतस्यापि यागादिफलस्येच्छया तत्करणे तु यजन्ते याजकाः इत्यादिकः साधुरेव प्रयोगः । अत एव पितृस्वर्गकाम: पुष्करिण्या यजेत इत्यादाक्प्यात्मनेपदम् धनकामो गणपतिं मोक्षकामोर्चयेद्धरिम् इत्यादौ परस्मैपदं च संगच्छते इत्याहुः (श० प्र०
पृ० १४५)। आत्मा—(द्रव्यम् ) [क] आत्मत्वसामान्यवान् (त०कौ० १ पृ० ३ )।
आत्मत्वं नाम समवायेन ज्ञानेच्छादिमत्त्वम् ( वाक्य० पृ० ५)। अथवा अमूर्तसमवेतद्रव्यत्वापरजातिः ( सर्व०सं० पृ० २१९ औ०)। [ख] ज्ञानाधिकरणम् ( त० सं०)। यथा आत्मा वारे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः इत्यादिश्रुतौ । आत्मा द्विविधः । जीवात्मा परमात्मा चेति । तत्राद्यः प्रतिशरीरं भिन्नो विभुर्नित्यश्च कर्ता भोक्ता च । द्वितीयः ईश्वरः सर्वत्र एक एव (त०सं०) (त० को०)। तत्र प्रमाणं श्रुतिः । सा च द्वे ब्रह्मणी वेदितव्ये परं चापरमेव च इति । तमेवं विदित्वातिमृत्युमेति इति च ( म० प्र० पृ० ३)। गुणविशिष्टमात्मान्तरमीश्वरः इति (वात्स्या० ४।१।२१)। आत्मा चाप्रत्यक्ष एवेति वैशेषिकाः ( वै० ८।१।२ ) । तन्मते आत्मानुमानगम्य एव । तच्चानुमानम् करणव्यापारः सकर्तृकः करणव्यापारत्वात् छिदिक्रियायां वास्यादिव्यापारवत् इति। करणव्यापारेण कर्तृरनुमानगम्यत्वे तत्साजात्यात् ज्ञानक्रियाकरणमपि सकर्तृकं करणत्वात् इति चक्षुरादिना ज्ञानसाधने नात्मनोनुमानम् (वाच०)। नैयायिकास्तु जीवात्मा मानसप्रत्यक्षविषय इति प्राहुः ( भा० ५० श्लो० ५०-५१ ) । अन्यत्सर्वं जीवात्मपरमात्मशब्दव्याख्यानावसरे व्यक्तीभविष्यति । ज्ञानाद्भिन्नो न नाभिन्नो
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org