________________
न्यायकोशः। आज्ञया नरपतेर्द्विजन्मनां दारकर्ममृतसूतके तथेत्यादौ इत्यपि कश्चिद्वक्ति। २ लगावधिदशमभाव आज्ञेति ज्योतिःशास्त्रज्ञाः । ३ भ्रूमध्यस्थं सुषुम्नानाड्यन्तर्गतमाज्ञाचक्रमिति तात्रिकाः ( वाच० )। आज्यत्वम्-यदाजिमीयुः तदाज्यानामाज्यत्वम् (जै० न्या० अ० १
पा० ४ अधि० ३)। आज्यस्तोत्रम्-अग्न आयाहि वीतये । आनो मित्रावरुण । आयाहि सुषुमा हि ते । इन्द्राग्नी आगतं सुतम् । तान्येतानि प्रातःसवने गायत्रसाम्ना गीयमानानि चत्वार्याज्यस्तोत्राणीत्युच्यन्ते (जै० न्या० अ० १ पा०४
अधि० ३ )। आततायी-अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः । क्षेत्रदारहरश्चैव षडेते
ह्याततायिनः ।। ( मिताक्षरा अ० २ श्लो० २१ )। आत्मनेपदम्-तङानावात्मनेपदम् (पाणिनिसू० १।४।१००)। अस्यार्थः। तङ्प्रत्याहारः शानच्कानचौ चात्मनेपदसंज्ञाः स्युः । तङ्प्रत्याहारान्तर्गतप्रत्ययास्तु त आताम् झ थास् आथाम् ध्वम् इट् वहि महिङ् इति । लटः शतृशानचावप्रथमासमानाधिकरणे ( पाणिनिसू० ३।२।१२४ ) इति सूत्रेण लटः स्थाने विहितः शानच् । कानच्प्रत्ययस्तु लिटः कानज्वा ( पाणिनिसू० ३।२।१०६) इत्यनेन वेदे लिटः स्थाने विहितः। आत्मनेपदसंज्ञायाः प्रदेशस्तु अनुदात्तङित आत्मनेपदम् ( पाणिनिसू० ११३।१२) इत्यादिः । क्रमेणोदाहरणानि । एधते एघेते एधन्ते इत्यादीनि तङ्प्रत्याहारस्य । पचमानं चैत्रं पश्येति शानचः । चक्राणा वृष्णिमिति कानचः । विस्तरस्तु सिद्धान्तकौमुद्यादौ द्रष्टव्यः । अत्रेदं बोध्यम् । परस्मैपद आत्मनेपद एतदुभयपदिधातूनां यत्र क्रियाफलं कर्तृनिष्ठं तत्रात्मनेपदम् । यत्र च कर्तृभिन्ननिष्ठ तत्र परस्मैपदं साधु । तत्र सूत्रं प्रमाणम् स्वरितभितः कभिप्राये क्रियाफले ( पाणिनिसू० १।३।७२ ) इति । तदर्थश्च कर्तारमभिप्रैति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org