________________
११६
न्यायकोशः। नान्या सत्त्वानां तदवयवानां च नियताद्वयूहादिति । नियतावयवव्यूहाः खलु सत्त्वावयवा जातिलिङ्गम् । शिरसा पादेन गामनुमिन्वन्ति । नियते च सत्त्वावयवानां व्यूहे सति गोत्वं प्रख्यायत इति ( वात्स्या० २।२।६७)। [ख] अवयवसंस्थानविशेषः । यथा घटस्य कम्बुप्रीवादिराकृतिः ( दि० ४ पृ० १७८ )। [ग] रूपक्रियादिविशिष्टमवयवसंस्थानं जातिलिङ्गमेवाकृतिरिति शाब्दिका वदन्ति । आकृतिश्च शक्यार्थ एवेति
केचित् ( पतञ्जलिप्रभृतयः ) मन्यन्ते (वाच० )।.. आक्षेपः-१ अर्थापत्तिः (न्या० म० ४ पृ० ६ ) (नील० पृ० २८)।
अर्थापत्तिरित्यस्यानुमितिरित्यर्थः (म० प्र० ४ पृ० ३९)। २ समानवित्तिवेद्यत्वमाक्षेप इति गुरवः (न्या० म० ४ पृ० ६ )। ३ आक्षेपश्वानुमानमर्थापत्तिर्वेति भट्टाः ( ग० शक्ति० )। अत्र बहूनां विप्रतिपत्तिरुदाह्रियते। गवादिपदानां गोत्व एव शक्तिः व्यक्तिलाभस्त्वाक्षेपादिति मीमांसकाः । तत्र गोत्वं हि स्वाश्रयं विनानुपपन्नमिति तमाक्षिपतीति भट्टाः (न्या० म० ४ पृ० ६) (मु० ४ पृ० १७० ) ( त० दी० ४ पृ० २८ ) (ग० शक्ति० पृ० ४१ )। जातिवाचकपदाजातिबोधः शाब्दः । व्यक्तिबोधस्त्वौपादानिक एवेति श्रीकरमतम् । अत्रौपादानिकत्वं च उपादानमापत्तिस्तत्प्रयोज्यत्वम् जातिकारणत्वं वा (ग० शक्ति० पृ० ४६ ) । व्यक्तेरपि बोधः शब्दादेव न त्वाक्षेपादितः । व्यक्तिशाब्दबोधे शक्तिविरहो नानुपपत्ति प्रयोजयति । लक्षणात
एव तदुपपत्तिरिति मण्डनाचार्यमतम् ( ग० शक्ति० पृ० ४६ )। आख्या-संज्ञात्मकं नाम । यथा पश्चादुमाख्यां सुमुखी जगाम (कुमा०)
इत्यादौ ।
आख्यातम्-तिङ्-प्रत्ययानाम् आख्यातम् इति संज्ञा। अतोत्राख्यातपदेन तिप् तस् झि इत्यादयोष्टादश प्रत्यया वैयाकरणसंमता गृह्यन्ते । तिङ्प्रत्ययार्थस्तु [क] कृतिः । यथा चैत्रस्तण्डुलं पचतीत्यादौ तिबर्थः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org