________________
११४
न्यायकोशः। आकाशम्- (द्रव्यम् ) [क] संयोगाजन्यजन्यविशेषगुणसमानाधिकरणविशेषाधिकरणम् ( सर्व० औलू० पृ० २१८ )। तद्यथा संयोगाजन्यो यो जन्यविशेषगुणः विभागजः शब्दः तत्समानाधिकरणो विशेषः पदार्थप्रभेदः तदधिकरणत्वमाकाशेस्तीति । अत्र जन्यविशेषगुणः पाकजरूपादिः तत्समानाधिकरणविशेषाधिकरणे पार्थिवपरमाणावतिव्याप्तिवारणाय संयोगाजन्येति । परमात्मन्यतिव्याप्तिवारणाय जन्येति । उभयं च विशेषगुणविशेषणम् इति बोध्यम् । आकाशत्वं च शब्दसमवायिकारणत्वम् (त० कौ० १ पृ० ७) (मु० १ पृ० ५२)। आकाशसत्त्वे प्रमाण
मनुमानम् । तच्च शब्दः पृथिव्याद्यष्टद्रव्यातिरिक्तद्रव्याश्रितः अष्टद्रव्या१ . नाश्रितत्वे सति समवायिकारणवत्त्वात् यन्नेवं तन्नैवं यथा रूपमिति ... (सि० च० १ पृ० ९)। यद्यप्याकाशोतीन्द्रियस्तथापि विलक्षण
शब्दात्मककार्यान्यथानुपपत्त्या स स्वीकरणीयः (प्र० प्र०) । अथवा शब्दो गुणः चक्षुर्ग्रहणायोग्यबहिरिन्द्रियग्राह्यजातिमत्त्वात्स्पर्शवत् शब्दो द्रव्यसमवेतो गुणत्वात्संयोगवत् इत्यनुमानाभ्यां शब्दस्य द्रव्यसमवेतत्वे सिद्धे पृथिव्याद्यष्टसु द्रव्येषु शब्दाधिकरणत्वस्य बाधात् शब्दाधिकरणं नवमं द्रव्यं गगननामकं सिध्यति (मु० १ पृ० ८६-८७ ) (वै० सू० २।१।२०) (वै० उ० २।१।२७ ) । शाब्दिकास्तु इदं नक्षत्रचक्रमत्र तिष्ठति अत्रैतदभावः इति निर्दिष्टवस्तुविषये पृथिव्यादेराधारत्वासंभवेन तदाधारस्यैवाकाशसंज्ञकत्वम् इत्याहुः ( ल० म० )। तत्रोक्तं हरिणा । आधारशक्तिः प्रथमा सर्वसंयोगिनामयम् । इदमत्रेति भावानामभावानां च कल्प्यते ॥ १॥ व्यपदेशस्तमाकाशनिमित्तं तु प्रचक्षते । कालाक्रिया विभज्यन्ते आकाशात्सर्वमूर्तयः ॥ २ ॥ एतावानेव भेदोयमभेदोपनिबन्धनः इति (वाक्यप०) । सांख्यास्तु निष्कमणादिकं कर्म आकाशानुमापकम् इति आहुः ( वै० सू० २.१।२० ) ( त० व० पृ० १२८ ) । अयं भावः । निष्क्रमणप्रवेशनाद्युत्क्षेपणधर्मवत्त्वादाकाशसिद्धिरिति सांख्यादयो मन्यन्ते । एतदभिप्रायेण सुश्रुते उक्तम् अन्तरिक्षात्तु शब्दः शब्देन्द्रियं सर्वच्छिद्रसमूहो विविक्तता
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org