________________
१०७
न्यायकोशः। कृत्तद्धितसमासैकशेषसनाद्यन्तधातुरूपाः पञ्च वृत्तयो गृह्यन्ते । सार्थबोधकत्वे सतीत्यत्र स्वार्थश्च स्वीयशक्तिग्रहे विशेष्य इति विवक्षणीयः । अत एव शरैः शातितपत्रः चैत्रस्य दासभायेंत्यादौ न समस्यमानस्य शातितदासपदादेः सापेक्षता । पदार्थैकदेशशातनदासत्वादावेव शरकरणकत्वचैत्रनिरूपितत्वादीनामन्वयात् (ग० व्यु० का० १ )। ऋद्धस्य राजमातङ्ग इत्यादौ वृत्तिः राजमातङ्ग इति समासवृत्तिः । तदघटकं पदं ऋद्धस्येति पदम् । तदर्थान्वितः स्वार्थः राजपदार्थः । तद्बोधकत्वे सति वृत्तिजन्यो बोधः राज्ञो मातङ्गः इति बोधः । तादृशबोधे प्रकारताश्रयः विशेषणम् राजा । तद्बोधकत्वं राजपदेस्ति इति लक्षणसमन्वयः । अत्र ऋद्धपदार्थस्य राजपदार्थेन्वयो न भवति । सामर्थ्याभावात् । तत्तदर्थविशेष्यकान्वयबोधं प्रति तत्तत्सामर्थ्यस्य प्रयोजकत्वात्। समर्थः पदविधिः ( पा० सू० २।१।१ ) इति सूत्रव्याख्यानावसरे तथैवोक्तत्वादिति । एवं च ऋद्धस्य राजमातङ्ग इत्यत्र राजमातङ्ग इति समासः असाधुरेव । राजपदस्य समासाघटकऋद्धपदसापेक्षत्वादिति । वृत्त्यघटकेत्यादिलक्षणे ऋद्धो राजमातङ्ग इत्यादौ मातङ्गपदस्य सापेक्षत्ववारणाय विशेष्यदलम् । असिद्धः- ( हेत्वाभासः ) [क] यत्र व्याप्तिः पक्षधर्मत्वं वा नास्ति सः
असिद्धः (वै० वि० ३।१।१५)। असिद्धत्वं च लिङ्गत्वेनानिश्चितत्वम् । [ख] व्याप्तिपक्षधर्मतान्यतररहितो हेतुः (प्र० प्र०)। यथा घटो द्रव्यं श्रावणत्वादित्यादौ श्रावणत्वादिहेतुरसिद्धः । असिद्धत्रिविधः । आश्रयासिद्धः स्वरूपासिद्धः व्याप्यत्वासिद्धश्चेति (त० सं०) (त० कौ० २ पृ० १४ ) (प्र० प्र०) ( भा० प० श्लो० ७६ )। प्रकारान्तरेण असिद्धश्चतुर्विधः। उभयासिद्धः अन्यतरासिद्धः तद्भावासिद्धः अनुमेयासिद्धश्चेति । तत्र उभयासिद्धः उभयो,दिप्रतिवादिनोरसिद्धः हेतुः । यथा नित्यः शब्दः सावयवत्वात् इति । अन्यतरासिद्धः वादिप्रतिवाद्यन्यरस्यासिद्धो हेतुः । यथा कार्यत्वादनित्यः शब्द इति । तद्भावासिद्धः स्वसद्भावासिद्धः । यथा धूमाभावेश्यनुमाने । अनुमेयासिद्धो यथा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org