________________
१०८
न्यायकोशः। 'पार्थिवं तमः कृष्णरूपवत्त्वात् इति । एवमाश्रयासिद्धिरप्युभयथा अन्यतरासिद्धिरुभयासिद्धिश्च (प्रशस्त० २ पृ० २९)। असिद्धो हेतुश्च साध्य
सम इत्युच्यते ( वात्स्या० १।२।८ ) ( गौ० वृ० ११२। ८)। असिद्धिः-( हेतुदोषः) [क] परामर्शप्रतिबन्धकज्ञानविषयो धर्मः (त, कौ० २ पृ० १४)। अत्रेदं बोध्यम् । यत्र योसिद्धिस्तत्र तव्याप्योप्यसिद्धिरेवेति (वै० वि० ३।१।१५ )। [ख] व्यभिचाराद्यन्यपरामर्शप्रतिबन्धकतावच्छेदकधर्मवत्त्वम् (न्या० म०२ पृ० २१)। [ग] साधारण्यासाधारण्यानुपसंहारित्वभिन्नं ज्ञानस्य विषयतया परामर्शविरोधितावच्छेदकं रूपमसिद्धिः (दीधि० २ पृ० २१५-२१६)। सा चासिद्धिः आश्रयासिद्ध्याद्यन्यतमा (मु० २ पृ० १६१) ( गौ० वृ० १।२।८ ) ( चि० २ पृ० १०२)। यथा काञ्चनमयहृदः काञ्चनमयवह्निमान्काञ्चनमयधूमादित्यादौ काञ्चनमयत्वाभाववद्भदादिः । आश्रयासिद्ध्याद्यन्यतमेत्यस्य आश्रयासिद्धिः स्वरूपासिद्धिः व्याप्यत्वासिद्धिश्चैतासामन्यतमेत्यर्थः । अत्र परामर्शविषयाभावत्वेनानुगतेन त्रयाणामसिद्धत्वेन संग्रहो महर्षिणा कृत इति न विभागविरोधः हेत्वाभासाधिक्यं वा। अत एव ये व्याप्तिविरहपक्षधर्मताविरहरूपास्ते असिद्धिभेदमध्यमध्यासते तदन्ये च यथायथं व्यभिचारादय इति सिद्धान्तप्रवादोपि (चि०२ पृ० १०२)। उदयनाचार्यास्तु पक्षधर्मताज्ञानाभावः असिद्धिः । व्याप्तस्य पक्षधर्मतया प्रमितिः सिद्धिस्तदभावः असिद्धिरित्याहुः (ग० बाध० )। असिद्धित्रिविधा। आश्रयासिद्धिः स्वरूपासिद्धिः व्याप्यत्वासिद्धिश्चेति ( चि० २ पृ० १०२ )। (गौ० वृ० १।२।८ ) (वै० वि० ३।१।१५) (न्या० म० २ पृ० २१)। प्रकारान्तरेण असिद्धिश्चतुर्विधा व्याप्तेः पक्षस्य हेतोश्च तज्ज्ञानस्याप्य
भावतः ( ता० र० श्लो० ८५') इति । असूया-[क ] गुणिनि दोषाविष्करणम् । यथा शत्रवे असूयतीत्यादौ · धात्वर्थः । अत्र विषयताविशेष एव चतुर्थ्यर्थः (ग० व्यु० का० ४)।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org