________________
न्यायकोशः ।
द्दण्डादीनां कार्यत्वातिरिक्तो यो धर्मः घटत्वादिः तदवच्छिन्ना या घट निष्ठा कार्यता तन्निरूपितकारणतावत्त्वादसाधारणकारणत्वमिति । [ग] साधारणकारणभिन्नकारणत्वम् ( म०प्र० १ पृ० ५ ) । असाधारणत्वम् - १ ( हेतुदोषः ) सर्व सपक्षव्यावृत्तत्वम् ( चि० २ सव्य०
१०६
पृ० ८९) (मु० २ पृ० १५९ ) । अयं चासाधारणानैकान्तिक हेत्वाभासनिष्ठो दोष इति विज्ञेयम् । यथा शब्दो नित्यः शब्दत्वा दित्यादौ शब्दत्वस्य अप्साधारणत्वम् (न्या० म० २ पृ० २० ) । एतज्ज्ञानं चानुमितेः साक्षात्प्रतिबन्धकम् । नित्येध्वनित्येषु च कापि शब्दत्वस्य हेतोरदर्शनेन हेतुज्ञानेपि शब्दे नित्यत्वसंशयस्यानिरासात् । २ असाधारणकारणत्ववदर्थो द्रष्टव्यः । असाधारणधर्मः – लक्ष्यतावच्छेदकसमनियतो धर्मः । यथा गोलक्षणं हि सास्नादिमत्त्वम् । एवासाधारणधर्म इत्युच्यते ( त० दी० १ पृ० ४) । अत्र धर्मे असाधारणत्वं च तदितरावृत्तित्वे सति सकलतद्वृत्तित्वम् ( त० प्र०१ ) | अथवा लक्ष्यतावच्छेदकसमनियतत्वम् (त० दी० पृ० ४) । लक्ष्यतावच्छेदकव्यापकत्वे सति लक्ष्यतावच्छेदकव्याप्यत्वमित्यर्थः ( नील० १ पृ० ४ ) । भवति हि सास्नादिमत्त्वं लक्ष्यतावच्छेदकीभूतगोत्वस्य व्यापकं व्याप्यं चेति । स चासाधारणधर्मो द्विविधः । व्यावर्तकः अव्यावर्तकश्च । आद्यो गोः सास्नादिमत्त्वम् । द्वितीयः सप्तपदार्थानामभिधेयत्वम् ( सि० च० १ पृ० ५ ) । अयमाशयः । सप्तपदार्थातिरिक्तपदार्थाप्रसिद्ध्या तद्भेदासंभवेनाभिधेयत्वस्य व्यावर्तकत्वं न संभवतीति । असाधारण्यम् — असाधारणत्ववदस्यार्थोनुसंधेयः । असाधुत्वम् — महाजनपरिगृहीतव्याकरणस्मृति निषिद्धत्वम् ( चि० ४ ) ।
1
यथा अचीक्रमतेत्यादिप्रयोगस्य स्वर्णस्तेयादेश्च यथाक्रममसाधुत्वम् । असामर्थ्यम् — वृत्त्यघटकपदार्थान्वितस्वार्थबोधकत्वे सति वृत्तिजन्यबोधीयप्रकारताश्रयस्वार्थबोधकत्वम् । यथा ऋद्धस्य राजमातङ्ग इत्यादौ ऋद्धपदार्थस्य राजपदार्थेनान्वये विवक्षिते राजपदस्यासामर्थ्यम् (ग० व्यु० का ० १ ) । इदमसामर्थ्यमेव सापेक्षत्वम् अपेक्षा वेत्युच्यते समासाद्यसाधुत्वे प्रयोजकं च भवतीति बोध्यम् । वृत्तिशब्देनात्र वैयाकरणसंमताः
Jain Education International
·
For Personal & Private Use Only
www.jainelibrary.org