________________
न्यायकोशः ।
१.०५
विपक्षाच्च घटादेर्व्यावृत्तम् पक्षे शब्दे च वर्तत इत्यसाधारणम् ( चि० २ पृ० ८८ ) । अत्र प्राचीनमते असाधारणत्वज्ञानं हि साक्षादनुमितिप्रतिबन्धकम् । तथाहि शब्दत्वं हि नान्वयी हेतुः । दृष्टान्ता - भावात् । किंतु व्यतिरेकी । तथाच यो हेतुः यद्धर्मवतो व्यावृत्तः स स्वाश्रये तद्धर्माभावं साधयति । यथा धूमो वह्नयभाववतो जलहदादे
1
वृत्तः स्वाश्रये पर्वतादौ वह्नयभावाभावं ( वह्निम् ) साधयति । तथा शब्दत्वं नित्यत्ववतो गगनादेः सपक्षाद्व्यावृत्तमिति स्वाश्रये शब्दे नित्यत्वाभवं (अनित्यत्वम्) साधयेत् । एवं नित्यत्वाभाववतो घटादेर्विपक्षात् व्यावृत्तमिति स्वाश्रये शब्दे नित्यत्वाभावाभावं (नित्यत्वम् ) अपि साधयेत् । परंतु नैवैकत्र शब्दे नित्यत्वानित्यत्वयोः संभवः । तयोर्विरोधात् । तस्माच्छब्दत्वे असाधारणत्वज्ञाने सति न साध्यानुमितिरिति ( त० कौ०२ पृ० १३-१४ ) ( चि० २ पृ० ८८ ) ( दीधि० २ पृ० १९६ - १९७ ) । [ग] साध्यासमानाधिकरणो हेतुः । यथा शब्दो नित्यः शब्दत्वादित्यादौ नित्यत्वा समानाधिकरणं शब्दत्वमसाधारणो हेतुः ( मु० २ पृ० १५९ ) ( गौ० वृ० १/२/५ ) । इदं लक्षणं च नवीनमतानुसारेणोक्तम् । प्राचीनमते त्वयं हेतुर्विरुद्ध एवेति मन्तव्यम् । नवीनमते असाधारण्यं साध्यासामानाधिकरण्यम् । एतस्य साध्यसहचारग्रहप्रतिबन्धेन व्याप्तिग्रहप्रतिबन्धो दूषकताबीजम् (गौ० वृ०१।२।५ ) । २ ( जाति: ) नित्यसम विशेषः । स च त्रिविधः युक्ताङ्गहीनत्वम् अयुक्ताङ्गाधिकत्वम् अविषयवृत्तित्वं चेति ( सर्व० पृ० १५३ पूर्ण ० ) । असाधारणकारणत्वम् - [क] कार्यस्वानवच्छिन्न कार्यतानिरूपित कारण
ताश्रयत्वम् ( त० प्र० ) ( वाक्य ० १ पृ० १० ) । [ख] कार्यत्वातिरिक्तधर्मावच्छिन्न कार्यतानिरूपित कारणताशालित्वम् । यथा घटत्वावच्छिन्नं प्रति दण्डस्यासाधारणकारणत्वम् ( न्या० बो० १ पृ० ८ ) । अत्रेदं बोध्यम् । कार्यमात्रं प्रति कारणं कालादि इत्येव व्यवहारात्कालादीनां साधारणकारणत्वम् । दण्डादिकं कार्यमात्रं प्रति कारणम् इति न व्यवहारः । अपि तु घटादिकं प्रति कारणं दण्डादि इत्येव व्यवहारा१४ न्या० को ०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org