________________
१०४
न्यायकोशः। तन्तुसंयोगस्य एकस्मिन् तन्तौ प्रत्यासत्तिरस्ति इति लक्षणसमन्वयो बोध्यः (मु०१ पृ० ५० )। इयं च असमवायिकारणता लघ्वी इति संज्ञां लभते । लघुप्रतिपत्तिकत्वात् (वै० उ० २।१।२२ )। द्वितीया यथा तन्तुरूपाणां पटरूपं प्रति कारणता (वै० उ० २।१।२२) (५।२।२४) (त० भा० पृ० ४)। तथाहि स्वगतरूपादिकं प्रति समवायिकारणं पटः। तेन सह तन्तुरूपस्यैकस्मिन्तन्तौ प्रत्यासत्तिरस्तीत्यसमवायिकारणता संगच्छते (मु० १ पृ० ५० ) । इयं च असमवायिकारणता महती इति संज्ञां लभते । गुरुप्रतिपत्तिकत्वात् ( वै० उ० २।१।२२)। असमवायिगुणत्वम्- ज्ञानाद्यतिरिक्तभावकार्यासमवायिकारणगुणत्वम् (ल० व० पृ० ३७)। असमवायिकारणगुणाश्च रूपम् रसः गन्धः स्पर्शः एकत्वम् परिमाणम् एकपृथक्त्वम् स्नेहः शब्दः स्थितिस्थापकश्चेति ( भा० प० गु० श्लो० ८८ ) (मु० दि० गु० पृ० १९४ )। आत्मविशेषगुणानां कुत्राप्यसमवायिकारणत्वं नास्तीति नियमेन तेषामसमवायिकारणत्ववारणाय ज्ञानाद्यतिरिक्तेति गुणविशेषणम् ( मुक्ता०
१ पृ० ५०-५१)। असाधारणः-१ ( हेत्वाभासः ) [क] सपक्षविपक्षव्यावृत्तो हेतुः
( गौ० वृ० १।२।४ ) ( भा० ५० २ श्लो० ७४ ) ( त० सं० ) (चि० २ पृ० ८७ )। [ख] सपक्षविपक्षव्यावृत्तत्वे सति पक्षवृत्तिः । यथा शब्दो नित्यः शब्दत्वादिति । अयं चानैकान्तिकप्रभेद इति ज्ञेयम् । लक्षणं तु वक्ष्यमाणमसाधारणत्वमेव । अत्र सपक्षो निश्चितसाध्यवान् । विपक्षो निश्चितसाध्याभाववान् । पक्षः संदिग्धसाध्यवान् इत्यर्थो बोध्यः (गौ० वृ० ११४५)। इदं लक्षणद्वयं च (क-ख-इत्यत्र विद्यमानम् ) प्राचीनमतानुसारेणेति विज्ञेयम् । तन्मते पक्षवृत्तित्वे सति साध्यव्यापकीभूताभावप्रतियोगित्वमेवासाधारण्यम् । विरोधस्तु हेत्वाभासदोषः साध्यासामानाधिकरण्यरूपोन्वयव्याप्तिग्रहविरोधी। इदं च साक्षादनुमितिविरोधि (दीधि० २ पृ० १९७)। तद्विरोधित्वं च असाधारणत्वशब्दव्याख्यानावसरे प्रदर्शयिष्यते । अत्र शब्दत्वं हि सपक्षाद्गगनादे
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org